________________
बामलिङ्गम् ] द्वितीयोऽध्यायः ।
अथ लिङ्गं स्थूलमूलं स्थूलं मध्ये कृशं तथा । शेषं स्थूलशिरस्कं च चतुर्धति मयोदितम् ॥ १२४ ॥ लिङ्गव्यासेऽष्टधा भक्ते मूले मध्याग्रयोरपि । भागाधिकं च हीनं च स्थूलमूलादिकं स्मृतम् ॥ १२५ ॥ लिङ्गमार्षं तथा स्वायम्भुवमित्यत्र द्विधास्ति तत् । वेदाश्री ब्रह्मविष्ण्वंशो लिङ्गेष्वार्षेषु सम्मतौ ॥ १२६ ॥ शिवांशो वृत्त एव स्याच्छिरसो वा न वर्तनम् । अथ स्वयम्भूलिङ्गानि जर्जराणि कृशानि च ॥ १२७ ॥ हस्वानि चातिदीर्घाणि फलकासदृशानि च । अनकापाणि गोकर्णमातुलुङ्गनिभान्यपि ॥ १२८ ॥ षट्पञ्चत्रिदशाग्राणि मानोन्मानादिभिर्विना । शृङ्गाण्यपि च वक्राणि नानावर्णाकृतीनि च ॥ १२९ ॥ सपीठानि विपीठानि सालयान्यगृहाणि च । वनपर्वतनद्यब्धितीर्थक्षेत्रगतान्यपि ॥ १३० ॥ दर्शनस्पर्शनार्चाभिर्येषां सिद्धिरनुत्तमा । विद्यात् स्वयम्भूलिङ्गानि येषु नित्यं स्थितः शिवः॥१३॥ मूलं न शोधयेत् तेषां शोधनं सर्वनाशकृत् । अमीमांस्यानि तान्याहुः पूज्यान्येव यथास्थिति ॥१३२॥ नैषां मूर्तिविभागोऽस्ति नच स्यान्मन्त्रसङ्करः । मानुषेष्वेव लिङ्गेषु मन्त्रमूर्त्यादिसङ्करः ॥ १३३ ॥
अथ बाणलिङ्गम् । बाणलिङ्गं तु यत् सर्व यथाजातं निधापयेत् । स्वेच्छयाधं तु रामाशं वा पञ्चांशं द्विभागिकम्॥१३४॥