________________
૮
शिल्परत्ने
पौष्करे कारणाख्ये च यथोक्तं तत्तु कथ्यते । चतुरंशादि विप्राणां पञ्चांशादि नृपोचितम् ॥ ९९ ॥ षड्भागादि विशां योग्यं सप्तांशाद्यं तु वार्षलम् । वर्धमानं चतुर्भेदमेवं वर्णक्रमादिदम् ॥ १०० ॥ आकृत्यंशे तु लिङ्गोचे सप्तसप्ताष्टभागकैः । ब्रह्माद्यंशेषु यल्लिङ्गं विप्राभीष्टं शिवाधिकम् ॥ १०१ ॥ एकोनविंश (ता? त्या ) भक्ते तुङ्गे षट्षट्तुरङ्गकैः । ब्रह्मादिभागतुङ्गं चेद् भौपमीशाधिके स्मृतम् ॥ १०२ ॥ त्रयोदशांशे लिङ्गोच्चे वेदवेदशरांशकैः । कादिभागं विशां योग्यं लिङ्गमुक्तं शिवाधिकम् ॥ १०३ ॥ लिङ्गतुङ्गे दशांशे तु गुणाग्निश्रुतिभागिकम् । ब्रह्मायंशेषु शूद्राणामिष्टं लिङ्गं शिवाधिकम् ॥ १०४ ॥ पूर्वोक्तसमलिङ्गे च धारालिङ्गं विकल्पितम् । चतुरश्रं द्विरष्टाश्रं तन्मूले परिकल्पयेत् ॥ १०५ ॥
वैष्णवांशे च शैवांशे धारा द्विद्विगुणीकृते । सर्वेषामपि लिङ्गानां धारालिङ्गं त्रिधा मतम् ॥ १०६ ॥
मूलेऽष्टाश्रं वा कलाश्रं युगाश्रं तस्मादूर्ध्वं तद्युगाः स्युश्च धाराः ।
[उत्तरभागः
एवं पूर्वाचार्यकैरीश्वरस्य
प्रोक्तं धारालिङ्गमेतत् त्रिधैव ॥ १०७ ॥