________________
लिङ्गलक्षणम् ] द्वितीयोऽध्यायः ।
वर्धमानादिलिङ्गेषु नैतत् स्यादिति केचन । तहद् व्यक्तेषु लिङ्गेषु व्यक्ताव्यक्ते च रत्नजे ॥८८॥ स्वयंभुवि तथा बाणेऽप्यार्षे वा नियमो नहि । वर्धमानादिलिङ्गानां त्रयाणमप्ययं विधिः ॥ ८९ ॥ यमसूत्रे तु कथिता छायादोषं विना यथा। लिङ्गायतिप्रमाणानीत्यादिना पीठविस्तृतिः ॥ ९ ॥ शिवभागसमा कार्या व्याख्यातं सङ्ग्रहे तथा । यावल्लिङ्गस्य वै दैयं तावत् पीठस्य विस्तृतिः ॥ ९१ ॥ सङ्कृत्यंशे तु लिङ्गोचे सप्ताष्टनवभिः क्रमात् । अंशैर्ब्रह्महरीशानभागाः स्युर्वर्धमानके ॥ ९२ ॥ लिङ्गायामे प्रकृत्यंशे षट्सप्ताष्टांशकल्पिताः। क्रमाद् ब्रह्मादिभागास्त एवं वा वर्धमानके ॥ ९३ ।। पञ्चषट्सप्तभागैर्वा चतुष्पञ्चषडंशकैः । वर्धमानं भवेल्लिङ्गं श्रेष्ठमध्याधमक्रमात् ॥ ९४ ॥ लिङ्गायामे तु पङ्क्त्यंशे रामाग्निश्रुतिसम्मितैः । अंशैब्रह्मादिभागाः स्युः क्रमाल्लिङ्गे शिवाधिके ॥ ९५ ॥ लिङ्गोत्सेधे तु नन्दांशे षट्सप्तवसुभागकैः । ब्रह्मविष्ण्वीशभागानां क्रमान्नाहाः प्रकीर्तिताः ॥ ९६ ॥ लिङ्गं त्रैराशिकं नाम भवेत् सर्वसमे तु तत् । स्वायामा(विस्तारं स्वस्तिकं वा शिवाधिकम् ॥ ९७ ।। वर्धमानं च तल्लिङ्गं नाम्ना सुरगणार्चितम् । तत् सार्वदेशिकं ज्ञेयं सर्ववर्णहितावहम् ॥ १८ ॥