________________
लिङ्गलक्षणम् । ] . द्वितीयोऽध्यायः ।
लौहानि नव लिङ्गानि त्रिहस्तान्तानि कल्पयेत् ॥ ५४॥ तथाष्टाङ्गुलमारभ्य द्विद्वयङ्गुलविवर्धनात् ।। त्रिहस्तान्तानि लिङ्गानि त्रयस्त्रिशद् भवन्ति हि ॥ ५५॥
षोडशाङ्गुलमारभ्य दारुलिङ्गान्यनुक्रमात् । * षोडशाङ्गुलवृद्धया स्युः षड्ढस्तान्तानि वै नव ॥ ५६ ॥ '. घोडशाङ्गुलमारभ्य चतुरङ्गुलवर्धनात् ।। दारवाणि त्रयस्त्रिशल्लिङ्गान्या रसहस्ततः ॥ ५७ ।। यस्य यस्मिन् भवेदास्था विभूतिर्यस्य यादृशी । लिङ्गं तदनुसारेण कारयेदालयोचितम् ॥ ५८ ॥ कारयेदेवमेवात्र लिङ्ग मात्राङ्गलैरपि । यजमानसमं तस्य नेत्रास्यहनुदोःसमम् ॥ ५९ ॥ स्तनान्तं हृदयान्तं च लिङ्गोच्चमिति सप्तधा। तत्रैकहस्तलिङ्गस्य चतुर्हस्तं तु विस्तृतम् ॥ ६ ॥ विमानं स्यात् तथा पञ्चगुणं षड्गुणमेव वा। . विस्तारद्विगुणोच्चं तु नागरं त्रिगुणं यदि ॥६१ ॥ भूमिजाख्यं स्मृतं तस्माद् द्विगुणं शिखरं यदा। नागरं वलभिर्नाम विमानं भवति स्फुटम् ॥ १२ ॥ लिङ्गायामे विकारांशे भूतवेदामिविस्तरम् । जयदं पौष्टिकं सार्वकामिकं द्राविडे भवेत् ॥ ६३ ॥ अभिकृत्यंशके गर्भे षोडशांशं तदुत्तमम् । त्रयोदशांशमधर्म तयोर्मध्येऽष्टभाजिते ॥ ६४ ॥ . नव लिङ्गानि सिध्यन्ति वेसरे तानि कल्पयेत् । १. 'म' ग, पाठः