________________
शिल्परत्ने
उत्तरमागे कृतेन युक्तशस्त्रेण सुस्निग्धं कारयेदथ । पुनर्विलेपयेन्मृत्स्नामाद्री मृदुतरां क्रमात् ॥४४॥ शुष्के तस्मिन् पुनर्लिप्त्वा मृद्वया संशोषयेत् पुनः । कठिनेन पुनस्तत्र कृष्णायसपटादिभिः ॥ ४५ ॥ बद्ध्वा यथाबलं पश्चात् कठिनेन विलेपयेत् । आवृत्त्या लेपयेत् तेन यथालोषं यथाबलम् ॥ ४६ ॥ अप्रधानावयवगस्थाने स्याल्लोहपद्धतिः। एवं शुष्के पुनर्यन्त्रवशादातप्य वह्निना ॥ ४७ ॥ मधूच्छिष्टं बहिस्त्यक्त्वा तं दहेत् काष्ठवेष्टितम् ।। यदा कूश्माण्डपुष्पाभं वर्णमन्तर्गतं पुनः ॥ ४८ ।। लोहमार्गादिरन्ध्रेण दृश्यते तत् तदैव हि। अवरुह्य भुवः श्वभ्रे विन्यस्योर्ध्वमुखं यथा ॥ ४९ ॥ मूषायामातिं लोहं शीघ्रमादाय यत्नतः । निक्षिप्य तन्मुखे मन्दमन्तर्भागं सुपूरयेत् ॥ ५० ॥ पांसुना बहिराच्छाद्य कालाच्छीतलिते पुनः । तीक्ष्णायसकृतैः शस्त्रैर्मुदं त्यक्त्वा सुधीः क्रमात् ॥५१॥ सुलक्षणं कारयेत् तैस्तैरुचितैः शस्त्रभेदकैः । एवं तत्कर्मकुशलैलॊहजं कारयेद् बुधः॥ ५२ ॥ घन चेल्लोहजं बिम्बं मधूच्छिष्टेन केवलः ।
कृत्वा मृल्लेपनादीनि पूर्ववत् क्रमतश्चरेत् ॥ ५३ ॥ पुनरपि बिम्बोन्मानमाह --
अष्टाङ्गुलं समारभ्य (द्विय ? चाष्टा)ङ्गुलविवर्धनात् ।