________________
विलक्षणम् ॥]
द्वितीयोऽध्यायः ।
तत्र लोहार्द्रमापूर्व कारयेल्लौहमुत्तमम् ।
अथ तत्प्रक्रियां वक्ष्ये कर्मकारहिताय तु ॥ ३३ ॥ कठिना मन्दकठिना मृही मृदुतरा तथा । मूषाकरणयोग्येति पञ्चधा मृत्तिका स्मृता ॥ ३४ ॥ पूर्वोक्तां नाकुजां वाथ मृत्स्नामादाय यत्नतः । मृल्लोष्टचूर्णसंयुक्तां यथायुक्ति विमर्दयेत् || ३५ ॥ शुद्धाम्भसा पूगचर्मसारं युक्त्या सुयोजयेत् । कारयेत् कठिनामेवं शिलामुसलताडिताम् ॥ ३६ ॥ तस्मिन् गोमयसंयुक्ते स्यान्मन्दकठिना पुनः । मृद्भाण्ड चूर्णसंयुक्तां तत्पादांशकमृत्तिकाम् ॥ ३७ ॥ पेषण्यां पेषयेद् यां सा मृद्वीति कथिता पुरा । तदेव गोमययुता मृत्स्ना मृदुतरा स्मृता ॥ ३८ ॥ तुषाधङ्गारचूर्णेन संयुक्ता घटमृत्तिका । कार्पासपटचूर्णेन समं मुसलपीडिता ॥ ३९ ॥ एषा भूषामृदाख्याता कर्तव्या सानया दृढम् । यत्किञ्चिदीप्सितं तन्तु किश्चिन्न्यूनप्रमाणतः ॥ ४० ॥ कृत्वा द्वितीयया शुष्के तष्ट्वा लिप्त्वा पुनः पुनः । अन्ते गोमयसारेण लिप्त्वा श्लक्ष्णीकृते पुनः ॥ ४१ ॥ कृत्वा तस्मिन् मधूच्छिष्टपट्टं युक्तघनान्वितम् । इष्टप्रमाणं तत् सर्वं कृत्वा तेन सलक्षणम् ॥ ४२ ॥ भूषणादीनि सर्वाणि मधूच्छिष्टस्य तन्तुना । कृत्वा तिन्त्रिणसारेण वेणुसारेण वा तथा ॥ ४३ ॥
१. 'णात् त' ख. ग. पाठः,
११