________________
शिल्परत्ने हस्तोच्चमानादारभ्य पादवृद्धिक्रमेण तु ॥ २२ ॥ . त्रिहस्तान्तं कनिष्ठानि लिङ्गानि स्युर्नवैव हि । चतुर्हस्तायताल्लिङ्गात् प्राग्वत् पादविवर्धनात् ॥ २३ । षड्ढस्तान्तं मध्यमानि लिङ्गानि नव कल्पयेत् । सप्तहस्तोच्चमारभ्य पादवृद्ध्या तु पूर्ववत् ॥ २४ ॥ श्रेष्ठानि नव लिङ्गानां त्रयस्त्रिंशदुदाहृतम् । तालादिनवतालान्तं तालमानेन कीर्तितम् ।। २५ ॥ पूजांशोच्चे चतुर्विशत्याधिक्यशतभाजिते । मूललिङ्गेऽङ्गुलं कृत्वा तालमानं प्रकल्पयेत् ॥ २६ ॥ एकाङ्गुलादिद्वियववर्धनेनानलाङ्गुलात् । कनिष्ठनवलिङ्गानि तथा वेदाङ्गुलादितः॥ २७॥ मध्यानि नव लिङ्गानि तथैवाङ्गाङ्गुलान्ततः । सप्ताङ्गुलादिद्वियववर्धनेना नवाङ्गुलात् ॥ २८ ॥ श्रेष्ठानि नव लिङ्गानि रत्नजानि विशेषतः। कनिष्ठमध्यलिङ्गानि रत्नजातानि सर्वतः ॥ २९ ॥ चलानि गेहे पूज्यानि स्थिराण्येवोत्तमानि हि । तान्यालये प्रतिष्ठाप्य स्थिरलिङ्गानि पूजयेत् ॥ ३०॥ रामाङ्गुलादितो लौहं लिङ्गमा षोडशाङ्गुलात् । चललिङ्गं स्मृतं तस्मात् स्थिराण्यूज़ भवन्ति हि ॥ ३१॥ मधूच्छिष्टेन निर्माय सकलं निष्कलं तु वा। बद्ध्वा मृदा दृढं शुष्कमधूच्छिष्टं बहिः सृजेत् ॥ ३२ ॥ १. 'के', २. 'हिस्त्यजेत्' ख. पाठः.