________________
पप्रमः] द्वात्रिंशोऽध्यायः ।
२२७ जलसंज्ञो राशिर्वा जलग्रहो वापि लग्नगतः । कूपविधौ चिन्त्यः स्यादाद्रव्यप्रसङ्गो वा ॥ ५ ॥ प्रश्नवचनादिवणे वर्गचतुर्थे(थ)वा स्वरे दीर्थे । भवति जलं न भवति तद्वर्गादौ चान्तिमे द्वितीये वा ॥६॥ राहुयुतश्चन्द्रश्चे(चर)लग्नस्थो भवेदम्बु ।। दशमगते वा भानौ पातालस्थो गुरुस्तथा ताक् ॥ ७ ॥ लग्ने जलवति सेन्दा प्रष्टरि जलराशिगे भवेदम्भः। पातालस्थे पाते पृच्छकचन्द्रौ सहस्थितौ तद्वत् ॥ ८ ॥ स्वोच्चगतौ भृग्विन्दू नीचगतैः प्रेक्षितौ पृथम् जलद । प्राग्गमने चण्डालो यद्यागच्छेत् तदाशु वेश्या वा ॥ ९ ॥ प्रमुषितको यदि वायात् कूपे वाच्यं जलं भूरि । आर्द्रद्रव्यं स्पृशाते यदि वा वारे तत्संज्ञितं का
तोयासन्नो भवति यदि वा तोयकार्योन्मुखो व॥ प्रष्टा वाच्यः सलिलमचिरादस्ति निःसंशयेन
पृच्छाकाले सलिलामति वा श्रूयते यत्र शब्दः ॥ १० ॥ अम्भःप्रश्ने सलिलनिलयं राशिमाश्रित्य चन्द्रो ।
लग्नं यातो भवति यदि वा केन्द्रगः शुक्लपक्षे । सौम्यैदृष्टः प्रचुरमुदकं पापदृष्टोऽल्पमम्भ
श्चिन्त्यो युक्त्या सुमतिभिरतश्चन्द्रवद् भार्गवोऽपि॥११॥ पातालराशियुक्ताद् ग्रहयोगाद् दर्शनाचापि । कूपाम्भोरसमाहुर्लग्ननवांशेशतुल्यं वा ॥ १२ ॥ कटुलवणतिक्तमिश्रा मधुराम्लौ+ कषायमर्कादेः। प्रश्नवचनादिवर्णाद् रसभेदाः स्युस्तथा वाच्याः॥१३