________________
शिल्परने सुधाधवलिते रम्ये रचनापरिशोभिते । जालमार्गकृतोद्याने क्वापि सर्वप्रकाशके ॥ १५४ ॥ कापि सन्तमसोपेते मणिदीप प्रकाशिते । सौवर्णस्तम्भरुचिरे चन्दनस्तम्भगन्धिनि ॥ १५५ ॥
काकुट्टिमरोचिष्णौ स्फटिकोज्ज्वलकुट्टिमे । स्फाटिकोपलविन्यासदर्पणाकार भित्तिके ॥ १५६ ॥
२२६
विचित्रचित्रसंयुक्तप्रमोदप्रद कुट्टिमे । चित्रवस्त्रसमाकीर्णवितानेनोपरञ्जिते ॥ १५७ ॥
[उत्तरभागः
यथासुखं विशेद् राजा राष्ट्रैश्वर्यसमन्वितः || १५७३ ॥ इति शिल्परत्ने उत्तरभागे मनुष्यालयलक्षणं नाम एकत्रिंशोऽध्यायः ॥
अथ द्वात्रिंशोऽध्यायः । अथ कूपप्रश्नः ।
मीनकर्कि मृगान्त्यार्ध वृषतौल्यलियोषितः : । कुम्भश्च तोयदानि स्युर्ग्रहेषु शशिभार्गवौ ॥ १ ॥ तोयात्मक ज्ञजीवौ त सतोयौ तोयराशिगौ । तु वितोयावन्यराशिस्थावथ शन्यर्कभूमिजाः ॥ २ ॥ राहुश्च जलराशिस्थाः स्वल्पतोया भवन्ति हि । जलवत्यजलेन गतेऽधस्ताज्जलमुपरि भवति विपरीते । जलवद्द्यसंपाते प्रभूतमुदकं विनिर्देश्यम् ॥ ३ ॥ स्पृशति यदि वामभागे नैर्ऋतभागे विनिर्दिशेद् वारि । ऐशान्यामूर्ध्वाङ्गे शेषेषु स्पर्शतोऽनिलस्थाने ॥ ४ ॥