________________
मनुष्यालयविधिः ]
एकत्रिंशोऽध्यायः ।
तिलाक्षतं पञ्चगव्यं भक्ष्यं भोज्यं पृथग्विधम् । मांसौदनं सरुधिरं हरिद्रौदनमेव च ॥ १४३ ॥ ईशानदिशमाश्रित्य चरक्यै विनिवेदयेत् । आग्नेय दिशमाश्रित्य स्थितायै मांसखण्डकम् ॥ ९४४ ॥
२२५
दध्योदनं सरुधिरं विदार्ये विनिवेदयेत् । पूतनायै व नैर्ऋत्यां पीतं रक्तं बलिं क्षिपेत् ॥ १४५ ॥ वायव्ये पापराक्षस्यै मत्स्यमांसं सुरासवम् । पायसं वा प्रदातव्यं तन्नाम्ना सर्वतः क्रमात् ॥ १४६ ॥ सर्वेषां काञ्चनं दद्याद् ब्रह्मणे गां पयस्विनीम् । राक्षसानां बलिं दद्यान्मधुमांसौदमान्वितम् ॥ १४७ ॥ एवं सम्पूजिता देवाः शान्ति कुर्वन्ति ते सदा । विप्रांश्च पूजयेद् भक्त्या विदुषो गृहमागतान् ॥ १४८ ॥ इति वा (स्तो ? स्तू) पशमनं विरचय्य समाचरेत् । प्रासादभवनोद्यानप्रारम्भे च समापने ॥ १४९ ॥ परमैश्वर्यवृद्ध्यर्थं सर्वदोषोपशान्तये ।
विधाय वास्तुपूजां च गृहं सून्नेमा सर्वतः ।। १५० पावमानेन सूक्तेन रक्षोमेन च वेष्टयेत् । मङ्गलं तूर्योषेण कुर्याद् ब्राह्मणवाचकैः ॥ १५१ ॥ वृतं सक विशेद् राजा सुमुहूर्ते विशेषतः । ब्राह्मणोदीरितैर्मन्त्रैः शोभनैः शङ्खनिस्त्रतैः ॥ १५२ ॥ मङ्गलैरसूर्यनादेव विशेद् वेश्म विशांप्रतिः । प्रासादे रुचिरो तुझे सौवर्णकलशान्विते ॥ १५३ ॥
EE