________________
२३४
शिस्परले असुराय सुरा देया पैष्टं सौवर्णमेव च । घृसौदनं च शोषाय यवाः स्युः पापसंज्ञके ॥ १३४॥ रोगाय मोदकान् स(पीन् ? पिः) फणिने नागकेसरम् । भक्ष्यो मुख्याय दातव्यः फल्लाटाय ततः क्षिपेत् ॥ १३५ ।। मुद्गौदनं ततः सोमे पायसं मधुमिश्रितम् । शालिपिष्टं त्वर्गलाय लोविकामदितेः क्षिपेत् ॥ १३६ ॥ दित्यै तु पूरिकान् दद्यादित्येवं बाह्यतो बलिः । मण्डलान्तरसंस्थानामिदानीं बलिरुच्यते ॥ १३७ ॥ आपाय दापयेत् क्षीरमापवत्साय वै दधि । आयें पैकं तथा मांसं दातव्यं बलिकर्मणि ॥ १३८ । सावि(व्यै ? त्रे) मोदकं दद्याद मरिच सकुशौदनम् । सवित्रे गुडपूपांश्च देयं स्याद् घृतचन्दनम् ॥ १३९ ॥ विवस्वते प्रदातव्यं पायसं रक्तचन्दनम् । देवाधिपतये दद्यात् तालमिश्रं धृतौदनम् ॥१४॥ मित्राय सघृतं भक्तं रुद्राय (सुध ? गुड)पायसम् । पृथ्वीधराय मांसानि सकूश्माण्डानि दापयेत् ॥ १४१ ।। आज्यं च दधिसंयुक्तं ब्रह्मणे विनिवेदयेत् । शर्वस्कन्दाय चार्यम्णे जम्भके पिलिपिञ्जके ॥ १४२ ॥ १. 'शे' ख. पाठः, २. 'तत्त्वं त', ३. चिं' क. पाठः.
* इन्द्रानन्तरम् इन्द्रजयस्य, रुद्रानन्तरं रुद्रजयस्य च पूजा मातृकासु लुप्ता स्यात् । सैषा 'शुद्धान्नमेवेन्द्रजयाय शस्तम्', 'मांसं तथा रुद्रजये त्वपक्वम्' (क्रियापा० पट० २७. श्लो० २५) इति गुरुदेववचनादवगन्तव्या।