________________
एकत्रिंशोऽध्यायः ।
1
मनुष्यालयविधिः ]
वक्ष्ये पूर्वोक्तमार्गाचु तोमस्य विशेषकम् । अन्तर्गृहस्य कोणे स्याद् (?) ऐशाने शालिपिष्टकैः ॥ मण्डलं कारयेदेकाशीतिकोठैर्यथापुरम् । कुण्डं त्रिमेखलं कार्यं मण्डलेशानभागतः ॥ १२५ ॥ तत्र होमः प्रकर्तव्यः शास्त्रदृष्टेन वर्त्मना । ततो मण्डलसंस्थाभ्यो देवताभ्यो बलि हरेत् ॥ १२६ ॥ घृतानं देयमीशाय पर्जन्यायाज्यसंयुतम् । ओदनं सात्त्वतं दद्याज्जयन्ताय निवेदयेत् ॥ १२७ ॥ ध्वजानपूपान् पिष्टेन कूर्मरूपं प्रकल्पितम् । पैष्टं कुलिशमिन्द्राय पञ्च रत्नानि चार्पयेत् ॥ १२८ ॥ धूम्रवर्णं वितानं च सक्तून् सूर्याय कल्पयेत् । सत्याय घृतगोधूममत्स्यान् दद्याद् भृशाय च ॥ १२९ ॥ शष्कुलीरन्तरिक्षाय सक्तून् दद्याच्च पावके । पूष्णे लाजाः प्रदातव्या वितथे च ( र ? ) णकौदनम् ॥ गृहक्षताय मध्वनं यमाय पललौदनम् । गन्धर्वाय सुगन्धं च *भू (शा ? ङ्गा) य रणजिह्नक: १) ॥
मृगाय यावकं देयं पितृभ्यः कृसरांस्तथा । दौवारिके दन्तकाष्ठं पैष्टं कृष्णबलिं तथा ॥ १३२ ॥
क्षिपेदपूपं सुग्रीवे पुष्पदन्ते तु पायसम् । कमलं सकुशस्तम्बं वरुणाय समर्पयेत् ॥ १३३ ॥
२२३
* अत्रैव पूर्वभागे 'स्यात् पश्चिजिह्वा त्वथ भृङ्गराजे' (अध्या० ७ लो० ५१) इत्युक्तम् !