________________
मनुष्यालयविधिः] एकत्रिंशोऽध्यायः ।
२२१ नवकोणविदिग्गेहे (स्यात् ? स्युः) षड्विंशचतुर्वपि । चत्वारो मध्यगाः स्तम्भा यत्र तस्यां चतुष्कृतम् ॥१०२।। तस्माद् बहिरलिन्दः स्याच्छाला स्यात् तदनन्तरम् । अलिन्दं च पुनः शाला क्रमेणैवं प्रवर्तते ॥ १.३॥ यावत् कर्तुमभीष्टं स्याद् गृहं नरपतेः शुभम् । यञ्चतुष्कशतं क्षेत्रं पञ्चधा तद् विभज्यते ॥ १.४॥ तद्भागप्र(तिमं ? मितं) कार्य त्रिभिर्भागैरलिन्दकम् । सार्वत्रिभागिका शाला कर्तव्या सुविचक्षणैः ॥१०५॥ इयं स्थितिः समस्तानां गृहाणां प्रतिपादिता । नाम्ना तु मुखकोणं यत त(हागं? कार्य) रविभागतः ॥ मध्यस्तम्भाः शतं सार्ध षभियूंना निरूपिताः । शतं षष्टयधिकं ते स्युश्चतुर्भद्रेषु सङ्ख्यया ॥ १.७॥ एकादश तथा कोणे विदिशं विदिशं प्रति । चतुर्दश तथा त्रिंशञ्चतसृष्वपि संख्यया ॥१०॥ कथ्यते सर्वतोभद्रे ? द्रं) मनुभागैविभाजितम् । मध्यस्तम्भा भवन्त्यस्य षण्णवत्यधिकं शतम् ॥ १.९ ॥ चत्वारिंशत् तथाचैव भद्रे स्तम्भा निरूपिताः । एवं च(तस्य ? तुषु) भद्रेषु शतं षष्टिस्तथाष्टकम् ॥ ११०॥ कोणास्तस्य विधातव्यास्त्रयोदशमिता बुधैः। समन्ताद् गुणिताः कोणा द्विपञ्चाशद् भवन्ति ते॥ श्रीवत्समष्टभागं स्याञ्चतुःषष्टिस्तु मध्यमाः । तस्य स्तम्भाः प्रयोक्तव्या भद्रेऽष्टादशसंख्यया॥११२ ॥ १. देशे स्यात्' ग. पाठः. २. 'जे तस्या वि' ख. पाठः.