________________
२२०
शिल्परत्ने
(उत्तरमाण: पूर्वदक्षिणतोऽलिन्द नन्दमित्यभिधीयते । याम्यपश्चिमतोऽलिन्दं क्षयमित्यभिधीयते ॥ ९२ ॥ पूर्वपश्चिमतोऽलिन्दं कान्तं नाम्ना निगद्यते। दक्षिणोत्तरतोऽलिन्दं सुपक्षं परिचक्षते ॥ ९३ ।। उत्तरालिन्दहीनं चेत् सुखं तत्तु प्रकीर्तितम् । पश्चिमालिन्दतो हीनं धनदं गेहमुच्यते ॥९४॥ दक्षिणालिन्दहीनं यदाक्रोन्तं तदुदाहृतम् । पूर्वालिन्दविहीनं यद् विपुलं परिकीर्त्यते ॥ ९५ ॥ सर्वतोऽलिन्दतो युक्तं विजयं गेहमुत्तमम् । एवं षोडशगेहानि कथितानि परिस्पुटम् ॥ ९६ ॥ यथानाम फलं तेषु ज्ञेयं तत्र निवासिनाम् । धन्यं तस्मात् प्रकर्तव्यं नृपाणां गेहमुत्तमम् ॥ ९७ ॥ हीनस्तम्भमलिन्दं स्याच्छाला स्तम्भैः समावृता । नृपाणां गृहकर्तृणां (कर्म ? क्रम) एष निरूपितः ॥ ९८ ॥ मुखं द्वारं विनिर्दिष्टं मन्दिरस्य विचक्षणैः । अथान्यथा
नृपगेहानि वक्ष्यामि स्तम्भसंख्याप्रमाणतः ।। ९९ ॥ चतुष्कालिन्दशोभीनि चतुर्भदैर्मनोहरैः । पृथ्वीजयं गृहं कार्यं दशभागं विचक्षणैः ॥ १० ॥ मध्ये स्तम्भशतं तस्य भद्रेऽष्टाविंशतिस्तथा । चतुर्भद्रेषु च शतं स्तम्भानां द्वादशाधिकम् ॥ १.१॥ १. 'स' क. पाठः. २. 'का' ख. पाठः.