________________
मनुष्यालयविधिः एकत्रिंशोऽध्यायः ।
नन्द्यावर्तादि चत्वारि स्युस्त्रिशालानि भूभुजाम् । अथान्यथा
नैर्ऋते मुख्यगेहं स्याच्छाले चोत्तरपूर्वगे ॥ ८१ ॥ पूर्वायाश्चोत्तरहारमुत्तरायाश्च पूर्वतः । कर्तव्ये गर्भगेहस्य द्वारे वास्तुविचक्षणैः ॥ ८२ ॥ एकं स्यात् पूर्वतो द्वारमन्यदुत्तरतः स्मृतम् । अङ्कणाद् दक्षिणा शाला हस्तिनी परिकीर्तिता। ८३ ।। मणात् पश्चिमा शाला महिषीति निगद्यते । इदं द्विशालं सिद्धार्थं सर्वकामफलप्रदम् ॥ ८४ ॥ नृपाणां शस्यते स्थानं विशेषाद् वित्तवर्धनम् । वायव्ये गर्भगेहं स्यात् शाले दक्षिणपूर्वगे ॥ ८५ ।। द्वारे शालामुखे कार्ये शालाद्वारे च सम्मुखे । महिषी त्वङ्कणात् पश्चादुत्तरा गौः प्रकीर्तिता ॥ ८६ ॥ द्विशालं भयदं चैतद् द्वारपुयाँ विनिन्दितम् । ईशाने प्रथमे वेश्मे (?) शाले दक्षिणपश्चिमे ॥ ८७ ॥ अङ्कणात् पूर्वशालाखी + गौरुत्तरदिग्गता (?)। व्यासाख्यं नाम तत् प्रोक्तं नृणामुद्वेगकारणम् ॥ ८८ ॥ विशालमेकं सिद्धार्थ प्रशस्तं पृथिवीभुजाम् । क्रीडार्थ तन्निवासार्थ भोगार्थ च प्रशस्यते ॥ ८९ ॥ ध्रुवं हीनमलिन्देन पूर्वालिन्दं तु धन्यकम् । जयं स्याद् दक्षिणालिन्दं पश्चालिन्दं खरं भवेत् ॥९॥ दुर्मुखं चोत्तरालिन्दमेकालिन्दं चतुर्ग्रहम् । धन्यं जयं च शुभदं निन्दिते खरदुर्मुखे ॥ ९१ ।।