________________
मनुष्यालयविधिः] एकत्रिंशोऽध्यायः ।
२१५ __ अथ द्विशालकम् -- . पूर्वापरयोहीना यस्मिञ् शाला वदन्ति गृहचुल्लीम् । दक्षिणसौम्यविहीनं सिद्धार्थकमाह वागधिपः ॥ ४८ ॥ पश्चिमयमगा शाला यमशूर्प पश्चिमोत्तरा शाला। दण्डाख्या सा कथिता पुरातनैः शिल्पशास्त्रनिष्णातैः ॥ ४९ ॥ उत्तरपूर्वा शाला वाताख्या भवति मानुषे सदने। प्राच्यावाच्या शाला यमदैवतनामधेया सा ॥ ५० ॥ सिद्धार्थेऽर्थावाप्तिर्यमशूर्पे गृहपतेर्मृत्युः।। ५१ ॥ दण्डाख्ये दण्डवधं गृहचुल्ल्यामपि कलहमुढेलम् । वाताख्ये वातभयं यमदैवतनाम्नि मृत्युरेव स्यात् ॥ ५२ ।। अथ चतुःशालम् -
स्वयोनिव्यासगतयो दिग्विदिक्षु च संस्थिताः ।
भिन्नशालेति सा प्रोक्ता मनुजानां शुभप्रदा॥५३॥ पर्यन्तध्वजमादधीत चतुरश्रं मध्यतश्चाङ्कणं
तत्पाश्र्थेऽप्यतिपत्रमानमपरं चाभ्यन्तरं केतनम् । तत्तुर्यश्रयुजोत्थकोणचतुरश्रेषूत्तरान्तर्ध्वजं
युक्त्या तूत्तरविस्तृतिं च जनयेत् तुर्यशालाविधौ ॥५४॥ इष्टदिग्योनियुक्ता च पर्यन्तेनैकलक्षणा । समतुर्यश्रका ज्ञेयाप्येकशालाथवायता ॥ ५५॥ एतयोः शालयोरत्र नान्तरालानि सन्त्यतः । शूद्रादिसूतिकादीना प्रवेशे स्पृष्टिसम्भवात् ।। ५६ ॥
१. 'टो', २. 'अ' क. पाठः,