________________
शिल्परत्ने
पूर्वोक्तलक्षणः सम्यक् परीक्ष्य बहुधा बुधः । स्वस्वयोग्या शुभा भूमि पूर्ववत् परिगृह्यताम् ॥ २ ॥ तद्विस्तारं पृथग् वक्ष्ये वर्णिनां दण्डमानतः । पञ्चाशदण्डमानं वा त्रिंशद् वा कथितं बुधैः ॥ ३॥ चत्वारिंशश्च वा कुर्यान्नृपाणां वेदिविस्तृतम् 1 द्वाविंशदण्डमानं वा त्रिंशद् वा तत् प्रकीर्तितम् ॥ ४ ॥ त्रयस्त्रिंशदथ प्रोक्तं द्विजानां वेदिविस्तृतम् । एकोनविंशत् त्रिंशद् वा द्वात्रिंशद् दण्डमानकम् ॥ ५ ॥ वैश्यानां वेदिविस्तारः कथितः शिल्पकोविदैः । पञ्चविंशश्च विंशश्च दण्डमानमुदाहृतम् ॥ ६ ॥ पञ्चवादशाथ वा कुर्याच्छूद्राणां वेदिविस्तृतम् । उत्तम चाधमं चापि मध्यमं च यथाक्रमम् ॥ ७ ॥ यदुक्तं वेदिविस्तारमायामं चापि तत्समम् । दक्षिणोत्तरमायामं वास्तोः सर्वत्र कीर्तितम् ॥ ८ ॥ अथवा समतुर्यश्रं विप्राणां क्षत्रियस्य तु । अष्टांशाधिकमायामं षड्भागेनाधिकं विशाम् ॥ ९ ॥ शूद्राणामब्धिमागैकमधिकं स्वस्वतारतः । मुखायाम प्रमाणार्धं दक्षिणे चोत्तरेऽपिच ॥ १० ॥ हित्वा तु समतुर्यश्रं वारतोर्मध्ये समाचरेत् । द्रष्टव्यान्यत्र मर्माणि वीथ्याथा वास्तुदेवताः ॥ ११ ॥ ग्रामोक्तवत् प्रकर्तव्यं द्वारं प्रत्यन्तगं पुनः । यन्त्रोन्नतं ततो द्वारं यत्र नीचं ततो गृहम् ॥ १२ ॥
२१०
[उत्तरभाग