________________
मनुष्यालयविधिः ]
एकत्रिंशोऽध्यायः ।
तदर्धं कुड्याविष्कम्भं त्रिचतुष्पञ्चभागिकम् | शान्तिकाद्युदयं प्राग्वदाचरेच्छिल्पवित्तमः ॥ १७ ॥ पूजांशोच्चस्य कर्णेन कार्ये या पीठविस्तृतम् । गर्भालयविशालं तु तेन द्वित्रिचतुर्गुणम् ॥ १८ ॥ तथा पञ्चगुणं तेन त्रिचतुष्पञ्चभागतः । षड्भागेनापि कुड्यस्य तारमन्यद् यथोदितम् ॥ १९ ॥ पूजांशबहलं हिनं यत् तत्कर्णेन पीठिकाम् । तद्वद् द्वित्रिगुणं वाथ गर्भगेहं चतुर्गुणम् ॥ २० ॥ तस्य त्रिभागं कुड्यं वा चतुष्पञ्चाशकं तु वा । शान्तिकाद्युदयं प्राग्वदेवं सकललिङ्गके ॥ २१ ॥
.
पादाद्युष्णीषपर्यन्तं पीठतारं प्रकल्पयेत् । नासान्तं चिकान्तं वा तेन गर्भालयादिकम् ॥ २२ ॥ प्रकल्प्य पञ्चप्राकाराद्यखिलं पूर्वमुक्तवत् । गर्मन्यासादिकं कृत्वा प्रतिष्ठाप्रक्रियां विना ॥ २३ ॥ सर्वे कृत्वा यथान्यायं पूजयेत् परमेश्वरम् ॥ २३ ॥ इति शिल्परत्ने उत्तरभागे लिङ्गप्रासादकरणं नाम त्रिंशोऽध्यायः ॥
२०९
अथ एकत्रिंशोऽध्यायः ।
अथ मनुष्यालयविधिः । एककुटुम्बसमेतं ग्रामं कुटिकाख्यमिति पूर्वमेयोक्तम् । तत्सङ्ग्रहविस्तारं लक्षणतः कथ्यतेऽत्र मुनिगदितम् ॥ १ ॥
cc