________________
२०८ शिल्परले
[उत्तरभागः तयासत्रिगुणं गर्भगेहविस्तारमानकम् । गर्भाधं कुड्यविस्तारमलिन्दं तत्समं भवेत् ॥ ६॥ गर्भगेहे द्विभागेऽशमालिन्दव्यासमेव वा । हारा तत्सममाख्याता हारालिन्दं विना तु वा ॥७॥ शान्तिकाधुदयं प्राग्वत् कल्पयेत् कल्पवित्तमः । त्रिगुणं लिङ्गविष्कम्भं पीठव्यासमथापि वा ॥ ८॥ त्रिगुणं पीठतारेण गर्भगेहविशालकम् । तदर्ध त्वग्निभागं वा भित्तिविष्कम्भमानकम् ॥ ९ ॥ शान्तिकाद्युदयं प्राग्वत् प्रासादे परिकल्पयेत् । अथ पूजांशपरिधेः षोडशांशाशुगांशकम् ॥ १० ॥ तल्लिङ्गबहलं (म ? मा)त्वा तत्कर्णद्विगुणार्धकम् । द्विगुणं वा तथाध्यधं पीठव्यासं प्रकल्पयेत् ॥ ११ ॥ गर्भगेहस्य विस्तारं तेन द्वित्रिचतुर्गुणम् । तदर्ध वा त्रिभाग वा कुड्यं गर्भसमं तु बा !! १२ । त्रिभागद्वितयं बाथ प्राग्वदुचाद्यमाचरेत् । पूजांशनाहसदृशं पीठविस्तारमेव वा ॥ १३ ॥ गर्भगेहविशालं तु तेन द्वित्रिचतुर्गुणम् । तदर्ध वा त्रिभागं वा कुड्यं गर्भसमं तु वा ॥ १४ ॥ नाडीगृहसमं वाथ त्रिपादं वार्धमेव वा। पादं वाथ त्रिभागं वा कुर्यात पूर्ववदुन्नतम् ॥ १५ ॥ अथ पूजांशनाहस्य कर्ण पीठविशालकम् । तेन द्वित्रिगुणं बाथ गर्भगेहं चतुर्गुणम् ॥ १६ ॥ १. 'ध' ग. पाठः.