________________
लिङ्गप्रासादविधिः] त्रिंशोऽध्यायः ।
२०७ उत्पाट्योक्तवदल्पबिम्बमुपनीयातो बहिः सन्दहेद्
गोसर्पिःस्लपितं तदर्हदहने तदारवं चेद् गुरुः । लौहं चेद् गुरवे समर्पयतु तद् विद्राव्य यज्वाथवा छित्त्वा नालमिदं विशोध्य सुशुभं तत्कौतुकं कल्पयेत्
॥१४॥ एवं जीर्णं गृहं बाथ बिम्बं वा प्रोक्तवर्मना । कृत्वा नवं दृढं देवं संस्थाप्य सुखमर्चयेत् ॥ ३५ ॥ इति शिल्परत्ने उत्तरभागे जीर्णोद्धारप्रकरणं नाम
एकोनत्रिंशोऽध्यायः ।।
अथ त्रिंशोऽध्यायः ।
अथ लिङ्गप्रासादविधिः । आर्ष प्रतिधितं पूर्व ?ष) स्वायम्भुवमथापि वा। दृष्ट्वा लिङ्गं वने दिव्यं पश्चात् प्रासादमाचरेत् ॥ १ ॥ ऋषिभिर्देवसिद्धायैः स्थापितं चार्षकं भवेत् । मत्यैः प्रतिष्ठितं यत्तु तत् पूष समुदाहृतम् ॥ २॥ स्वायम्भुवं भुवं भित्त्वा स्वयमुद्गतमेव हि । तेषां त्रयाणां दृश्यांशादधोदेशं न शोधयेत् ॥ ३ । मोहादज्ञानतो वापि मूलं खात्वा निरीक्ष्यते । कर्तुश्च ग्रामवा(सी ? सा)नां राज्ञः स्यान्नाशहेतुकृत् ॥४॥ तस्मात् सकलमस्यैव पूजांशस्य वशात् कुरु । पूजांशोच्चं द्विगुणितं पीठव्यासमुदाहृतम् ॥ ५॥ १. 'षं पूर्वं वाथ खा' क. ख. पाठः.