________________
२०६
शिल्परत्ने
विनष्टवस्तुनो गर्भं त्यक्त्वा गर्भं न्यसेत् पुनः । अधिष्ठानादिकं प्राग्वत् कुर्यात् स्तम्भादिकानपि ॥ २३ ॥ यदि तत्प्राक्तनद्रव्यैर्निष्पाद्यं चेद् गृहादिकम् | प्रारभ्यादौ नवद्रव्यैः पुराणैर्योजयेत् ततः ॥ २४ ॥ योगं नवर्नवैरिष्टं पुराणानां पुरातनैः ।
मिश्रयोगे विनाशः स्यादतो मिश्रं न कारयेत् ॥ २५ ॥
पुरग्रामालयादीनि पूर्वत्रस्त्वनुरूपतः ।
तद्बाधकं ++++ कुलनाशकरं त्यजेत् || २६ ॥
[उत्तरभार्गः
अन्तहाराबहिर्मूलादल्पलिङ्गालयादिकम् ।
कुर्वीत वान्तः सालस्य यथा मूलं न पीडयेत् || २७ || मूलालयसमं क्षुद्रमधिकं तन्न शस्यते । ran च पादोनं शरांशे त्र्यंशमेव वा ॥ २८ ॥ शिखिविशिखसुषिरभक्ते मूलगृहे मूलबिम्बे च । नेत्राग्निभूतभागेर्बालगृहं बालबिम्बं च ॥ २९ ॥ दोषे लघुतरे बिम्बं नैव त्याज्यं कदाचन । बाहुच्छेदे करच्छेदे पादच्छेदे तथैव च ॥ ३० ॥ तथैव स्फुटिते भिन्ने यस्मिन्नवयवे गते । वैरूप्यं जायते यस्य तत् त्याज्यं प्रायशो भवेत् ॥ ३१ ॥ अङ्गुल्यादिपरिच्छेदे बन्धनं शस्यते बुधैः । महादोषसमायुक्ते सान्निध्यं लक्ष्यते यदि ॥ ३२ ॥ तथैव बद्ध्वा संशोध्य प्रायश्चित्तं समाचरेत् ॥ ३३ ॥
१. 'शं' क. ग. पाठः.