________________
जीर्णोद्धारः] एकोनत्रिंशोऽध्यायः ।
२०५ मानतुङ्गत्वहानिर्वा वृद्धिथापि न शस्यते : जातिच्छन्दविकल्पानां स्यान्मानं प्राग्वदेव हि ॥ १२ ॥ स्वयम्भूदैविकार्षाणामल्पं प्राक्तनधाम चेत् । जीवापतितं तस्य गविर्धिर्दोषमावहेत (?) ॥ १३ ॥ द्वारप्राकारपीठाद्यमनुक्तस्थानगं यदि। परिवारं च तत्प्रोक्तस्थाने कुर्यात् सलक्षणम् ॥ १४ : सलक्षणं प्रकुर्वीत पूर्वसंस्थानसुन्दरम् । स्वायम्भुवार्षदैवं वा निष्कलं सकलं तु वा ॥ १५ ॥ स्थानान्न चालयल्लिङ्गं पूर्वस्थानेऽर्हति स्थितिः । नद्यब्धिजलवाताथैहेते वा चलितेऽपि वा ॥ १६ ॥ तस्मात् सहस्रदण्डान्तं क्षेमे संस्थापयेत् पुनः । तदेव तदभावे तु पूर्वलिङ्गसमं नवम् ॥ १७ ॥ पूर्वतुल्यविमाने तु प्रायश्चित्तादनन्तरम् । प्रतिष्ठितं भवेद् वृद्ध्यै राजराष्ट्रप्रजाहितम् ॥ १८ ॥ तत्र मूलालयस्थानाद् (या? य)माग्निमरुतां दिशम् । त्यक्त्वा यथेष्टमन्यत्र विधिना स्थापयेद् दिशि ॥ १९ ॥ यमे (भ ? कर्तृनृपस्याप(: ? द्) मरुद(मे ? ग्न्यो) नक्षयः। तस्मात् ते परिहत्यैव चलितस्थापनं हितम् ॥ २० ॥ छन्दानां प्राक्तना(ष्ण्वा ? त् स्थाना)त् प्राग्वोदक् परितो
ऽधिकम् । मानोन्मानप्रमाणोच्चं तलाधिक्यं च शस्यते ॥ २१ ॥ पूर्चस्माद्धीनमानाचं स्थानं कर्तनृपाहितम् । द्वारभित्त्यङ्कणादीनां गोपनं च विनाशकृत् ॥ २२ ॥