________________
२०४
शिल्परत्न
नागे शोषेऽथवा मूलप्रासादस्यानुरूपतः । प्राग्हारे वायुकोणे वा नैर्ऋत्यां वान्यगोमुखे ॥ ५ ॥ प्रासादमल्पं काष्ठैवी मृद्धि सुमनोहरम् । देवस्याभिमुखं तत् स्यात् तदग्रे मण्डपं शुभम् ॥ ६ ॥ अर्वाक् सप्तकराच्च मन्दिरसमो विस्तारतो मण्डप -
स्तस्मात् सप्तकराधिके तु भवने पादं विहायार्पयेत् । प्रासादस्य समं विभज्य हुतभुग्भागरधिष्ठानकं
द्वाभ्यां सम्परिकल्पयेच्च विधिवत् प्रत्युन्नतिं मण्डपे ॥७॥ तन्मध्ये भुवि वेदिका च विहिता तस्याश्चतुर्भागतो
विस्तारेण तदुन्नतिश्च नवभिर्धाम्नः प्रतेरुन्नतिम् । भक्त्यैकेन मिताथवा परिमितं कुर्याच्छुभाय स्थितं
विप्रादिष्वथ वर्णभेदविहितं वर्णेषु वा मण्डपम् ॥ ८ ॥ तन्मध्ये दारवं पीठं सश्वभ्रं कारयेद् गुरुः । बिम्बं लोहमयं वाल्पं कुर्याद् विम्बानुसारतः ॥ ९ ॥ रत्नन्यासं विना सर्व प्रतिष्ठोक्तं समाचरेत् ।
निष्क्रामणेन विधिनात्र तदन्तरङ्गे
वैकल्यभाजि वितनोतु यथापुरं तत् । सङ्कोचनेन बहिरङ्गविपद्यदश्व
[उत्तरभागः
निष्कामणेन चिरकालचिकीर्षितं चेत् ॥ १० ॥ तत्तद्रव्यैः शिलाद्यैस्तु समाधेयं हि पूर्ववत् । संस्थानं प्राग्वदेव स्यादलङ्कारांस्तु कारयेत् ॥ ११ ॥ १. 'तो' क. पाठः . २. 'भम् ॥ तन्मध्ये दा' ख. पाठः.