________________
जीर्णोद्धारः] एकोनत्रिंशोऽध्यायः ।
बल्यर्चा चोत्सवार्चा च तीर्थयात्रार्थकल्पिता । स्वापोत्थानकृता चेति चतस्रस्तूपबेरकाः ॥ ६१ ।। कर्मार्चा स्नपनाएं च बहुबेरेऽधिकं द्वयम् ॥ ६२ ।। इति शिल्परत्ने उत्तरभागे प्रतिष्ठाविधानं नाम
अष्टाविंशोऽध्यायः ॥
अथैकोनत्रिंशोऽध्यायः।
अथ जीर्णोद्धारः । आकल्पान्तस्थास्नुभावेन भक्त्या
देवस्यैवं सम्प्रतिष्ठापितस्य । प्रासादादिस्वाङ्गजीर्तिर्यदि स्या
दुद्धृत्यातस्तं नवाङ्गीकरोतु ॥ १ ॥ जीर्णोद्धृति स्थापितमन्त्रबिम्ब___ गृहादिजीतौ सपदीति कुर्यात् । दुःस्थोऽन्यथा चेद् विपदे तथा चेत्
सुस्थोऽत्र देवो यदि सम्पदे स्यात् ।। २ ॥ जीर्णोद्धारविधिं वदामि शिथिले जीर्णेऽथ दग्धेऽथवा
प्रासादे स्फुटिते विपर्ययगते लिङ्गेऽथवा चोभये । ऐशान्यां दिशि तस्य गेमभितः कृत्वा नवं मन्दिरं
तत्पार्श्वे चतुरश्रकं च पुरतः कुर्यात् पुनर्मण्डपम् ॥३॥ ऐन्द्रेशानविभागे वा सोमेशा(न ? नान्तरेऽपि वा। कृत्या काष्ठमयं गेहह्मल्पं प्राकारबाह्यतः ॥ ४॥ १. 'सु' क. पाठः. २. 'रि' ग. पाठा.