________________
शिल्परत्ने सर्वेष्वीशहरीशयोः पुनरिदं वार्चाशतो वाखिले
दिश्यैश्यां गमयेद् यवं यत्रयुगं वार्चोद्भवं सन्धितः ॥५५॥ ब्राह्मे कौतुकमामरे न्यस्तु मूलाच स्थितामासितामीषन्मानुषसंयुते समनृदेवांशे शयानामपि । गर्भे षोडशवर्गभेदिनि पदैर्ब्रह्मं चतुर्वर्गकै
स्त्रियेकोन्मितपङ्गिभिः सुरनृपैशाचान् प्रकुर्वीत वा ॥ ५६ ॥ ब्राह्मे षोडशमंशकं स्वपुरतो मध्याद् दलाढ्यैककं
वामे चाप्यपहाय वह्निभुवि विम्बं स्थापयेत् स्थास्नुकम् | एवं मानुषमध्यतोऽथ गमयित्वा पृष्ठतो वामतश्रांशे स्थापयतु स्वमूलमनुबिम्बं बाहुबेरे विधौ ॥ ५७ ॥ त्रिखण्डलिङ्गस्य ततः प्रतिष्ठां (?)
२०२
ब्रह्माश्ममूर्ध्नि विनिधाय पुनश्च मन्त्री |
उन्नीय मन्दमथ यन्त्रगतं च पीठं
[उत्तरभाग:
स्थाने प्रविन्यस्तु तत्र समाहितात्मा ॥ ५८ ॥ पीठप्रतिष्ठां विनिधाय पूर्वं
पश्चात् स्वबिम्बं त्वथ निष्कलेषु ।
सर्वेषु तत्तत्परिवारजालं
सम्यक् प्रतिष्ठाप (य) तूक्तक्लृप्त्या ॥ ५९ ॥ एवं प्रतिष्ठाप्य निजेच्छयेशं संपूजयेन्नित्यमनन्यचेताः । योऽसाविहाखिलमनोरथौघं
संप्राप्य याति परमायुरन्ते ( ? ) ॥ ६० ॥
१. 'र्धा' ख. पाठः.