________________
प्रतिष्ठास्थानम् ]
अष्टाविंशोऽध्यायः ।
षष्ठे सुम्भजिति प्रतिष्ठितिपदं शार्ङ्गश्वरे चाष्टमे प्रोक्तं शास्तरि षोडशे गणपतौ विंशे तथैकोत्तरे ॥ ५० ॥
* मध्ये महालिङ्गमतोऽल्पलिङ्गं नारायणः शङ्करकेशवश्च ।
तत्रैव षड्वक्त्रनिवासभूमिः
स्याद् वासुदेवो भगिनी च पश्चात् ॥ ५१ ॥
सुखासनं सप्तपदे विदध्यादतोऽष्टमे वा हरवासुदेवः । ततः परस्मिन् मणिलिङ्गधाम व्यासस्तथैकादशरुद्रभूमिः ॥ ५२ ॥ सूर्यस्तथाग्निभिषजी वसूनां
गणश्र शास्ता प्रहराणि भूयः । अष्टादशे मातृनिवासभूमि
स्ततः परस्तादथवायुधानि ॥ ५३ ॥ स्याद् वाहनं सूकरवामनौ च
लक्ष्मीश्र तत्रैव वसुन्धरा च । अनन्तमूर्तिप्रहराणि पञ्च
पश्रादनन्तासनवाहनानि ॥ ५४ ॥
विद्येश्वराश्चानु गणेश्वराच
२०१.
मार्ताण्डचन्द्रौ मुनयः प्रदिष्टाः ।
कृत्वोदङ्मुखमत्र सूत्रमथ मध्योग द्वारविस्तारतस्तूत्कृत्याढ्यशतांशकं प्रतिगमय्योदीचि चैन्द्राग्रगम् |
१. 'मके वि', २. 'त्स्यद्वा' ग. पाठः
*
इत आरभ्य सार्धश्लोकचतुष्टयं ख. मातृकायां न दृश्यते.
P5