________________
२०० शिल्परत्ने
[उत्तरमागः सन्ध्यर्धेऽत्र तु केसरांश्च रचयेद् द्वाराणि दिक्षु द्विकैः
कोणान्येकपटैरितीषुजनुषि स्यात् षड्दलं मण्डलम्॥४५॥ अथ स्वस्तिकभद्रम्*
नीवारशालिप्रभवं सितं स्याद्
रक्तं कुसुम्भप्रभवं रजश्च । गोरोचनोत्थं च मनःशिलाजं
पीतं च शालीप्रभवं च दग्धम् ॥ ४५ ॥ कृष्णं तथा याज्ञिकवृक्षपत्रैः __ सङ्कल्पितं श्यामरजः प्रशस्तम् । शुक्लं च रक्तं च तथैव कृष्णं
मुख्यं रजस्तत् त्रिगुणात्मकं तत् ॥ ४७ ॥ पुष्टयर्थमिष्टं त्वथ मुष्टिना च
सर्वार्थसिद्धयै तु कराग्रजैश्च । मध्याङ्गुलीतुल्यकृताश्च रेखा
स्तन्मध्यनिम्नं च यवं यथावत् ॥ ४८ ॥ अथ प्रतिष्ठास्थानम्कृत्वा गर्भगृहं कुलाद्रिकृतिकोष्ठाढ्यं समन्तात्पदे ।
ब्राह्मे पञ्चदशांशकान् विरचयेत् सौम्याग्रसूत्रैः समम् । तत्पृष्ठस्थितदेवमानुषपिशाचावारकेषु क्रमाद् _ विश्वोमेशनवांशकानपि ततः स्वं स्वं पदं कल्पयेत् ॥४९॥ ब्राझेऽशेऽन्तरनन्तरे महति चाल्पे चेशलिङ्गे हरौ तार्तीये द्रुहिणांशमध्यपदतस्तुर्ये गुहेशाच्युते । * इत उपरि मातृकासु पुट एकोऽलेखो दृश्यते।