________________
मनुष्यालयविधिः] एकत्रिंशोऽध्यायः ।
२११ दण्डात् प्राङ्कणमध्यतोऽब्धिशरषट्सतादिसंख्यानती
त्याध्यादथ पौष्पदन्तिकपदे द्वारं प्रचारोचितम् । भल्लाटे(ऽथ ? न्द्र)गृहक्षतेष्वपि महाद्वाराण्युपहारकाण्यष्टाशान्तभृशादिकेषु परितः पर्जन्यनिष्ठेष्वपि ॥ १३ ॥ द्वारं यत्र च विहित
तहिगधीशाधिपं भवेद् धाम । एकतलं वा द्वितलं
द्वितले द्विमुखं च निर्मुखं वा स्यात् ॥ १४ ॥ द्वारस्तम्भन्यासो जन्मनि तस्योदितं च शिल्पिवरैः । अथ तवास्तुपरिधेः सीम्नि कुर्याद् वृतिं बुधः । रक्षार्थ लक्षणार्थं च सीमार्थं च स्वशक्तितः ॥१५॥ वृतिपादस्य तु बहलं कुर्याद् विस्तारबाह्यतः पश्चात् ॥१६॥ सौत्रं बहलार्धं यत् तावद्बहलं च कारयेत् तलिपम् । तत्र च वर्ष कुर्यात् तुर्यश्रं द्वारगेहसदृशमपि ॥ १७ ॥ यद्वा परिघं कुर्यात् पाषाणैर्बद्धभित्तिसमचतुरम्। कण्टकशाखाभिर्वा वृतिमथ करभेक्षणाक्षमं कुर्यात् ॥१८॥
आवृत्यन्तर्भागे दिक्षु च वृक्षाः पुरोक्तवज् ज्ञेयाः । सूत्रे प्रादुदगग्रके क्षितितले कृत्वा चतुःखण्डिते
खण्डे कल्पयतु द्विजादिवसतिं शार्वेऽथ वा नैर्ऋते। खण्डेऽस्मिन् सति सम्भवे पुनरपि श्रुत्याशिते ब्रह्मसूत्राभ्याशे शुभवास्तुवीथिपदक्लप्त्याद्यं पुनश्चोन्नयेत्॥१९॥
१. 'न्' ख. पाठः.