________________
११४
शिल्परले अथार्धचन्द्राभम् --- क्षेत्रं विभज्य नवघोदगवाक् च भागौ
त्यक्त्वाचलांशकमितं परिवर्त्य सूत्रम् । प्रागादिकाप्यककुबन्तमुदग्भुजां च
तावत् प्रसार्य रचयेच्छशिखण्डकुण्डम् ॥ १७ ॥ अथ त्रिकोणम् - षष्ठांशकं यमहिमांशुदिशोः प्रतीच्य
सूत्रे सुयोज्य हरिदिग्बाहरङ्कयित्वा । तेनैव तेषु सुविधाय च सूत्रपातं
कुर्यात् त्रिकोणपरिमण्डितवज्ञिकुण्डम् ॥ १८ ॥ अथ वृत्तम् -- कर्णार्धसूत्रस्य मुजार्धतोऽति
रिक्तांशकाध बहिरर्पयित्वा । मध्यस्थसूत्रं परिवर्त्य कुण्डं
कुर्वीत चण्डधुत्तिमण्डलाभम् ॥ १९ ॥ अथ षट्कोणम्अङ्कौ प्रकल्प्य हरिपञ्चकदिक्पदिक्स्थौ
षष्ठांशतो बहिरतो निजमध्यतश्च । द्वौ हौ झषौ परदिशोरपि मत्स्यचिह्नषट्सूत्रकैरिचयेद् रसकोणकुण्डम् ॥ २० ॥ . .
१.
स. पाठा.