________________
१८२ शिल्परत्ने
[उत्तरभागः यस्या विभाव्यते स्त्रीणामाधिपत्यं लभेत सा । पद्मरेखा करे वामे या विरती वराङ्गना (?) ॥ ८४ ॥ इत्यादिलक्षणं युक्त्या बिम्बे चैव निरूप्यताम् । यदुक्तं तकलं सर्व तत्र +++ देदिदम् ।। ८५ ॥ इति शिल्परत्ने उत्तरभागे बिम्बदोषलक्षणं नाम
षड्विंशोऽध्यायः ।।
अथ सप्तविंशोऽध्यायः ।
अथ पीठादिलक्षणम् । तत्र पूर्व पद्मपीठं-- पद्मं तालसमुच्छ्रयं द्विगुणविस्तारं च षोढा कृते
मूले पट्टमिलांशतो द्वितयतोऽस्याधस्तनाष्टच्छदम् । अङ्घयूनप्रथमब्जमध्यमुपरिष्टादष्टपत्रं त्रिभि
आँगैः पट्टयुतं करोतु कमलेनामात्र पीठोच्छ्रयः ॥१॥ आसने शयनादौ तु तत्तद्योग्यविशालकम् ।
वृत्तं वायतवृत्तं वा पद्मं कुर्याद् यथोचितम् ॥२॥ अथ नालःविंशत्या प्रतिमाङ्गलैः प्रविततं वृन्ते तया सैकया __नालं सद्वितयापिवाथ विततेरष्टाचलाङ्गांशकैः । अन्ते हीनवितानमारचयतु ब्रह्मोपलान्तायतं
तुर्यश्रं सकलेषु वैधसमिदं वृत्तं वचिच्चैश्वरम् ॥ ३ ॥ १. 'वित्तीव व' ख. पाठः.