________________
बिम्बदोषाः] षड्विंशोऽध्ययः ।
१८१ ऊरू कृशौ रोमशौ वा यस्याः स्यातां भुजावपि । भर्तारं त्वरितं हन्ति विवाहे सापि वर्जिता ॥ ७३ ॥ अश्वत्थदलसङ्काशं गूढगुह्यमणिस्थितम् । यस्याः सा सुभगा कन्या धन्या पुण्यैरवाप्यते ।। ७४ ।। नितम्बबिम्बभ दृष्टं विस्तीर्ण शस्यते स्त्रियाः । मध्यं वलित्रयोपेतं कृशं शुभमरोमशम् ॥ ७५ ।। स्तनौ वृत्त(स्त ? घ)नौ शस्तावुरो रोमविवर्जितम् । ग्रीवा रेखात्रयोपेता बिम्बाकारोऽधरोऽधरः ॥ ७६ ॥ ग्रीवया स्थूलया चण्डी दरिद्रा इस्वया तया । कुलस्य नाशिनी निम्नदीर्घया जायते पुनः ।।७७ ॥ श्मश्रुभिः सहिता कन्या विषमश्रवणा च या। सा विरुद्धा भवेद् भर्तुरुत्तरोष्ठे तथोन्नता ॥ ७८ ।। विषमा दशना यस्या विरलाः स्थौल्यभागिनः । पूर्वीचार्यैः परिज्ञेया सर्वक्लेशकरी परा ।। ७९ ॥ द्वितीयचन्द्रसङ्काशभ्रूयुगा समनासिका । ऋज्वङ्गुलीका रमणी पत्युः संपत्करी सदा ॥ ८० ॥ पार्श्वे गले ललाटे वा वामतोला(जध ?ञ्छ)नान्विता । तस्मिस्तिलकिता चापि जनयेत् प्रथमं सु(ख ? त)म् ॥८॥ प्रसन्नवदना राज्ञी लम्बकेशी तपस्विनी । दुःखिताबहुकेशी स्यात् सामुद्रमतमीदृशम् ॥ ८२ ।। कोष्ठाजकलशाकारा रेखा यस्यास्तथैव च । तोरणं स्वस्तिकं चक्रं करे बाहुतलेऽपिवा ।। ८३ ॥ १. 'विष्टं' ग. पाठा.