________________
शिल्परले
(उत्तरमागः आका(रा ? रो) जायते पाणौ रेखया क्ररूपया । शखातपत्रशिबिकागजपद्माश्वस(स्विभिः ? निभः)॥१३॥ चक्रवर्ती भवेद् राजा जायते नास्ति संशयः। गवाढ्यो दामरूपाभिः स्वस्तिकाकृतिभिर्धनी ॥ ६४ ।। चक्रखड्गधनुःप्रासतोमराकृतिभिर्नृपः । अङ्गुष्ठमूलरेखाभिः (स्थूलाभिः) पुत्रवान् भवेत् ॥ ६५ ॥ तत्रत्यसूक्ष्मरेखाभिः कन्यां जनयति ध्रुवम् । प्रदेशिनीतलं प्राप्तरेखाः स्युः शतजीविनः।। ६६ ॥ न्यूनाभिश्छन्नरूपाभिर्दुमपातोद् भवेन्मृतिः । अरेखा बहुरेखाश्च मानवा धनवर्जिताः ॥ ६७ ।। नखा दन्ता रोमकेशव्योमच्छायाः(?) सुखप्रदाः । समन्ताद् भूमिसंलग्नं यस्याश्चरणयोस्तलम् ।। ६८ ॥ अष्टौ पुत्रान् प्रसूते सा पत्युः सन्तानवर्धना(त् ? न्)। अङ्गुष्ठं समतिक्रम्य दीर्घा यस्याः प्रदेशिनी ॥ ६९ ॥ संरक्षितापि यत्नेन सा भवेद् व्यभिचारिणी । दीर्घा स्यान्मध्यमा यस्याः सर्वा वा चरणाङ्गुली॥ ७० ॥ दुःशीला दुर्भगा नित्यं सा कन्या निन्दिता बुधैः । काकजङ्घा च या नारी या च रोमशजचिका॥७१ ॥ अचिरेण परिज्ञेयं वैधव्यमुभयोस्तयोः । अंसौ च पृथुलौ यस्याः सा दासी समुदाहृता॥ ७२ ॥
१. 'साविभः', २. 'दा' ग. पाठः,