________________
बिम्बदोषाः] षड्विंशोऽध्यायः । निन्दितं विपरीतं चेद् दुःखदारिद्यकारणम् । . उन्नतै त्रुभिज्ञेयं धनधान्यादिभोगदम् ॥ ३१ ॥ तैरेव विषमैनिम्नैर्विज्ञेयं धनवर्जितम् । सुश्लिष्टौ विपुलावंसौ नि(म? बोली(तौ ? कौ) सुखावहौ। रोमशौ (बल ? वलि)संयुक्तौ निर्मासौ दुःखदायिनौ । बाहू करिकराकारौ वरावाजानुलम्बिनौ ॥ ३३ !! गूढसंश्लिष्टसन्ध्याढ्यौ विपरीतौ विवर्जितौ । लाक्षारुणं पीवरं च मध्ये निम्नं मनागपि ॥ ३४ ॥ तलं शुभदमाख्यातं विपरीतं विनाशकृत् । उन्नते दानशीलत्वं शुष्के दारिद्यदं भवेत् ॥ ३५ ॥ विषमे तु तले तहत् पापदं व्याघ्रपाणिकम् । हस्तस्याङ्गलयो दीर्घाश्चिरजीवी नरः स्मृतः ।। ३६ ॥ वैदुष्यदा विवलिकाः स्थूला दारिद्रयदायिनः । मूढत्वदा बहिनता पूर्वोक्तान्नखरे वदेत् ॥ ३७॥ शूरः स्यान्महिषग्रीवः कम्बुग्रीवः क्षमापतिः । शुष्कग्रीधो भवेन्निःस्वः समग्रीवः समो भवेत् ॥ ३८ ॥ अभिन्नाग्रं मृदु स्निग्धं घनं श्मश्रु प्रशस्यते । आरक्तं विषमं कूर्च स्थूलरोममशोभनम् ॥ ३९ ॥ पूर्णचन्द्रसमाकारं वदनं त्वतिशोभनम् । निःस्वाः स्युर्दीर्घवदनाः समाना वर्तुलं मुखम् ॥ ४० ॥ १. र्ने' ख. पाठः. २. 'शरानां ब' ग. पाठः.