________________
शिल्परत्ने
उत्तरभागः मणौ च मलिनच्छाये दारिद्रयमुपजायते । मुष्कयोरुभयोः साम्ये राजराजत्वमाप्नुयात् ॥ २० ॥ लम्बयोईस्वयोश्चैव मुष्कयोदीर्घजीविनः । एक एव यदा मुष्कस्तदा स्यान्मरणं जलात् ॥ २१ ॥ वृत्तविस्तीर्णगम्भीरनाभौ सुखमतीव हि । विषमा बिलमध्यस्था नाभिर्दारिद्रयकारिणी ॥ २२ ॥ . दक्षिणावर्तनी शस्ता वामावर्तापकारिणी। लम्बोदरो भवेदाढ्यो बहुभोगः समोदरे ॥ २३ ॥ कृशोदरे लघुः कामी दुःखभागी महोदरे । घटोदरे भवेन्निःस्वस्तथैव विकृतोदरे ॥ २४ ॥ सोंदरे दरिद्रत्वं तथा निम्नोदरेऽपिच । बल्यैकया शस्त्रमृत्युः स्त्रीजितत्वं बलिद्वये ॥ २५ ॥ आर्यः स्यात् त्रिवलीयुक्ते पुटं चतुर्वलीयुते । सुतुल्यौ धनदौ पाश्वौं निर्धनाख्यौ च वक्रकौ ॥ २६ ॥ स्निग्धं विशालमुत्तुङ्गमुरश्चेद् राजलक्षणम् । सिरालं विषमं निम्नं वक्षश्चेद् विपदास्पदम् ॥ २७ ॥ समौ चेच्चूचुकौ भूपा लम्बितौ प्रेष्यतां गताः । अदृश्यौ तन्तुनाशाख्यौ विषमौ दुःखदौ स्मृतौ ॥ २८ ॥ उच्चकक्षसमायु(क्तौ ?क्ता)धनधान्यविवर्धनाः । समकक्षश्च तत्तुल्यो निर्धनो निम्नकक्षकः ॥ २९ ॥ दुःखी विषमकक्षः स्यादथ पृष्ठस्य लक्षणम् । अलग्नं मांसलं पृष्ठं मग्नवंशं शुभावहम् ॥३०॥ १. 'प्रदं च' ग. पाठः.