________________
बिम्बदोषाः] षड्विंशोऽध्यायः ।
१७५ सिंहव्याघ्रोपमे जो धनिनां परिकीर्तिते । काकजङ्घो भवेद् राजा मृगजकोऽपि तादृशः ॥ १० ॥ जो(व ? च) मीनवद् यस्य सोऽपि साम्राज्यभाग् जनः। स्थूलजङ्घा दीर्घजङ्घा जायन्ते पथिगाः सदा ॥ ११ ॥ सृगालकोलजङ्घा ये ते नरा दुःखभागिनः । इदं तु बिम्बे सञ्चिन्त्यं तथा वृत्ते च जानुनी ॥ १२ ॥ मांसले च समे शब्दहीने गूढतरास्थिनी । किञ्चिदुन्नतयुक्ते तु भवेतां सर्वमङ्गले ।। १३ ॥ ऊरू करिकराकारौ रोमभिः परिवर्जितौ ।। सुश्लक्ष्णौ निबिडौ नातिस्थूलौ नातिकृशौ वरौ ॥ १४ ॥ सुखदं मांसलं स्फिक् चेद् व्याघ्रभेकरिफमेव हि। तथैव दुःखदं ज्ञेयं शुष्कस्फिङ् नैव संशयः ॥ १५ ॥ मृगेन्द्रकटिसङ्काशकटिश्चेत् पार्थिवत्वदा । कामित्वं स्यात् कोलकटेः++++++++॥ १६ ॥ कर्कटोष्ट्रकटिस्तद्वत् श्वकटित्वं सुतापहम् । . मेहनं धनदं ह्रस्वं स्थूलं पुत्रार्थनाशदम् ।। १७ ॥ ( पु)त्रवृद्धिकरं ज्ञेयमेतद् दक्षिणतोन्नतम् । माणिनी सोन्नते स्निग्धे धनस्त्रीरत्नभाजनम् ॥ १८ ॥ मध्यनिम्ने भवेनिःस्वो मध्यादने विशेषतः । ईषद्रक्ते समृद्धिः स्यात् पाण्डरे धनहीनता ॥ १९ ॥
१. 'मिग्नव' ख. ग. पाठः.
२.
'व' ग. पाठः.