________________
शिल्परत्ने
उत्तरायः *अथ षड्विंशोऽध्यायः ।
अथ बिम्बदोषाः। मांसवर्णनखैर्वाथ पद्मताम्रनिभैस्तथा । संयुक्ताः प्रतिमा यत्र तत्रस्थाः सुखिनो नराः ॥ १॥ श्वेतैनखै?:खिनश्च शूलाग्रैः स्फटिकोपमैः । दरिद्रता भ(व ? ज)न्त्येव तथैव हरितै(नखैः) ॥ २ ॥ (अङ्गुल्यः) प्रोन्नताग्राश्चेद् भवन्ति सुखदाः सदा । पादाङ्गुष्ठमतिक्रम्य प्रदेशिन्यनिवर्तयेत् (?)! ३ ॥ लभन्ते तत्रदेशस्था नारीभोगमनुत्तमम् । कनिष्ठायां तु दीर्घायां बहुवित्तकरो भवेत् ॥ ४ ॥ अङ्गुल्यः कुटिलाः शुक्ला विरला दुःखभागिनः । अस्वेदनौ मृदू रक्तौ पुष्पौ चारुदलाविव ॥ ५ ॥ लमाङ्गुली सुपाणी च सिराविरहितौ तथा । मांसलौ गूढगुल्फो च कूर्मपृष्ठसमावपि ॥ ६ ॥ भवेतां चरणौ यस्य तत्रस्था राजवल्लभाः । विवृतौ शूर्पसङ्काशौ सस्वेदौ इस्वपाण्डरौ ॥ ७ ॥ रोमशौ चरणौ यस्य तत्रस्था दुःखभागिनः । दीर्घपादतले रेखा हलाङ्कुशनिभा यदि ॥ ८ ॥ सार्वभौमत्वदं लक्ष्म तदि(नं ? द) नात्र संशयः । क्रमाद् वृत्ते प्रशस्यते जङ्ग्रे स्निग्धे त्वरोमके ॥ ९ ॥
* ध-मातृकायामेतदादि पञ्चत्रिंशाध्यायारम्भावधिको भागो लुप्तः। + इतःप्रभृति क-मातृकायां पत्राणि पञ्च लुप्तानि ।