________________
गृधाः ]
पञ्चविंशोऽध्यायः ।
धूम्रा बाहवः सर्वे वरदाश्च गदाधराः । गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥ १५२ ॥
अथवा,
प्रागादिदिशासंस्थाः
शशिगुरुबुध भार्गवाः क्रमेण स्युः ।
आग्नेयादिष्वश्रिषु
धरणिजमन्दाहिकेतवः पूज्याः ॥ १५३ ॥
शुभ्रसितपीतशुक्ला
रक्तासितधूम्रकृष्णकाः क्रमशः ।
चन्द्राद्याः केत्वन्ता
वामोरुन्यस्तवामकरलसिताः ॥ १५४ ॥
अपरकराभयमुद्रा
विकृतमुखोऽहिः कराहिताञ्जलियुक् ।
दंष्ट्रोग्रास्यो मन्दः
सुवर्णसदृशांशुकादिभूषश्च ॥ १५५ ॥
स्त्रिगरुणोऽरुणसरोजयुगलधरः ।
अरुणसरोरुहसंस्थ
कलिताभयवरदकरो
युतिबिम्बोऽमितभूषण स्त्विनोऽवतु वः ॥ १५६ ॥
अथ गृध्राः
गृधाः किरीटिनः कार्या नवतालप्रमाणकाः । रत्नकुण्डलकेयूरहाराभरणभूषिताः ॥ १५७ ॥
इति शिल्परले उत्तरमागे इन्द्रादिदेवतीध्यानप्रकरणं नाम पञ्चविंशोऽध्यायः ॥
->
१७३
१. 'ताम' ख. पाठः.