________________
उत्तरभाग
१७२
शिल्परले चण्डपिङ्गलनामानौ खड्गखेटकधारिणौ । चन्द्रश्चित्रे विधातव्यः श्वेताम्बरसमावृतः॥ १४१ ॥ दशश्वेताश्वसंयुक्तमारूढः स्यन्दनं शुभम् । द्विभुजो दक्षिणे पाणी गदां बिभ्रत् पृथूदरीम् ॥ १४२ ॥ वामस्तु वरदो हस्तः शशाङ्कस्य निरूप्यते । धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि ॥ १४३ ॥ चतुर्भुजो मेषगमश्चाङ्गारकसमद्युतिः । दक्षिणं पुस्तकं हस्तं वरदं परिकल्पयेत् ।। १४४ ॥ ऊर्ध्व शक्तिसमायुक्तं वामौ शुक्लगदाधरौ । सिंहारूढं सम्प्रवक्ष्ये कर्णिकारसमप्रभम् ॥ १४५ ।। पीतमाल्याम्बरधरं स्वर्णभूषाविभूषितम् । वरदं खड्गसंयुक्तं खेटकेन समन्वितम् ॥ १४६ ।। गदया च समायुक्तं बिभ्राणं दोश्चतुष्टयम् । एवं लिखेचन्द्रसूनुं बुध ग्रहपतिं वरम् ॥ १४७ ॥ ततो देवगुरुर्लेख्यः शुक्रश्च भृगुनन्दनः । चतुर्भिर्बाहुभिर्युक्तश्चित्रकर्मविशारदैः ॥ १४८ ॥ वरदौ साक्षसूत्रौ च कमण्डलुधरौ तथा । दण्डिनौ च तथा बाहू बिभ्राणौ परिकल्पयेत् ॥ १४९ ॥ सौरि नीलसमाभासं गृध्रारूढं चतुर्भुजम् । वरदं वामसंयुक्तं चापशूलधरं लिखेत् ॥ १५० ॥ सिंहासनगतं राहुं करालवदनं लिखेत् । वरदं खड्गसंयुक्तं खेटशूलधरं क्रमात् ।। १५१ ॥ १. 'बुद्धकं' क. ग. पाठः, 'तरं ह' ध. पाठः.