________________
१७८
शिल्परले
उत्तरभागः चतुरश्रानना धूर्ता निम्नास्यः पुत्रवर्जितः। भीतास्यः पापकारी स्यादेवं वदनलक्षणम् ॥ ४१ ॥ रक्ता स्निग्धा शुभा जिह्वा पापी स्याच्छ्यामजिह्वकः । स्थूलजिह्वश्च तत्तुल्यः कृष्णजिह्वस्तथैव च ॥ ४२ ॥ कृष्णा च कर्बुराधस्ताद् रसना दुःखदा सदा । सुवर्षे रक्तवर्ण च तालु दुःखतरं मतम् ॥४३॥ लम्बमांसलकर्णाः स्युः पापिनः शुष्ककर्णकाः। शु(ष्क ? क)नासः सुखी प्रोक्तश्चिरायुः शुष्कनासिकः॥४४॥ वक्राग्रा धनदा नासा क्रूरा दक्षिणवक्रका । समाल्प ++ +++ दुःखिनो मानवाः स्मृताः ॥ ४५ ॥ शकुकर्णो महाभागो रोमकर्णाः शतायुषः । विस्तीर्णकर्णा धनिनः सिंहकर्णस्तु निष्ठुरः ॥ ४६॥ कृपणा इस्वकर्णाः स्युः सुभगाः श्याम(कर्णकाः) । समाल्पविवरा मूर्ध्नि नासा भाग्यप्रदायिनी ॥ ४७ ॥ धनिनः पद्मपत्राक्षा रक्तान्ताक्षास्तु श्रीप्रदाः । महाक्षा मधुपिङ्गाक्षा गजाक्षाश्च महत्तराः॥४८॥ गम्भीरनेत्रा धनिनः स्थूलाक्षश्चैव तत्समः । सुभगाः श्यामनयना बुधा नीलोत्पलेक्षणाः ॥४९॥ अधोदृष्टिश्चोर्ध्वदृष्टिः सततं दुःखदा नृणाम् । पार्श्वदृष्टिश्च तत्तुल्या समदृष्टिः शुभावहा ॥ ५० ॥ जिह्माः स्युः सारमेयाक्षास्तस्करा मर्कटेक्षणाः ! निःस्वा निर्गतनेत्राः स्युः पापा मार्जारलोचनाः ॥५१ ॥ १. 'न्त' ग. पाठः.