________________
१७०
अथ ब्रह्मा
शिल्परले
[उत्तरभागः
लिखेच्चतुर्मुखं देवं चतुर्बाहुं शुभेक्षणम् ॥ १२३ ॥
रत्नकुण्डलसंयुक्तं लम्बकूर्चोपवीतिनम् । कृष्णाजिनधरं गौरं शुक्लाम्बरविराजितम् ॥ १२४ ॥ दक्षिणं वरदं हस्तं तत्रान्यं शुभधोरिणम् । कमण्डलुधरं वामं तथान्यं संयुतं शुचा ॥ १२५ ॥ बिभ्राणं चतुरो वेदान् पुरतश्चास्य विन्यसेत् । वामे पार्श्वे तु सावित्रीं दक्षिणे तु सरस्वतीम् ॥ १२६ ॥ आज्यस्थाली पुरोभागे महर्षीश्च समन्ततः । हंसारूढं लिखेत् कापि कचिच्च कमलासनम् ॥ १२७ ॥ स्रष्टारं सर्वलोकानां ब्रह्माणं परिकल्पयेत् ।
अथ कुमारः
विलिखेत् षण्मुखं देवं मयूरवरवाहनम् ॥ १२८ ॥
तरुणादित्यसङ्काशं बालभूषणभूषितम् । स्थानीये खेटके वापि कुमारो लिख्यते यदा ॥ १२९ ॥ भुजा द्वादश कुर्वीत खर्वटे चतुरो भुजान् । ग्रामे वने द्विबाहुः स्याल्लेखनीयो विचक्षणैः ॥ १३० ॥
अथ नागः
नागानां वक्ष्यते रूपं नाभेरूर्ध्वं नराकृति | सर्पाकारमधोभागं मस्तके भोगमण्डलम् ॥ १३१ ॥ एकं फणं त्रयं वापि पञ्च वा सप्त वा नव । द्विजिह्वास्ते विधातव्याः खड्गचर्मकरैर्युताः ॥ १३२ ॥
१. 'दा' ग. पाठ:. २. 'पद्मक' घ. पाठी.