________________
कूर्मः ]
पञ्चविंशोऽध्यायः ।
१६९
नीलोत्पलधरां देवीमुपरिष्टात् प्रकल्पयेत् ॥ ११४ ॥ दक्षिणं कटिसंस्थं च बाहुं तस्य प्रकल्पयेत् । कूर्मपृष्ठे पदं चैकमन्यन्नागेन्द्रमूर्धनि ॥ ११५ ॥ अथवा सूकराकारं महाकाय कचिल्लिखेत् । तीक्ष्णदंष्ट्राग्रघोणास्यस्कन्धकर्णोर्ध्वरोमकम् ॥ ११६ ॥
अथ नृसिंहः
नरसिंहा कृतिं वक्ष्ये रौद्रसिंहमुखेक्षणाम् । भुजाष्टकसमायुक्तां स्तम्भपीनसमाश्रिताम् (?) ॥ ११७ ॥ हिरण्यकशिपुं दैत्यं दारयन्तीं नखाङ्कुरैः । ऊरोरुपरि विन्यस्य खड्गखेटकधारिणम् ॥ ११८ ॥ तस्यान्त्रमालां निष्कृत्य बाहुयुग्मेन बिभ्रतीम् । मध्यस्थिताभ्यां बाहुभ्यां दक्षिणे चक्रपङ्कजम् ॥ ११९ ॥ कौमोदकीं गदां शङ्खं बाहुभ्यामिति वामतः । नीलोत्पलपदच्छायां किं वा चम्पकसप्रभाम् ॥ १२० ॥ तप्तकाञ्चनसंकाशां बालार्कसदृशीं लिखेत | त्रिविक्रमः ---
तथा त्रिविक्रमं वक्ष्ये वामपादेन मेदिनीम् ॥ १२१ ॥ आक्रामन्तं द्वितीयेन साकल्येन नभस्तलम् । अथ मत्स्यमूर्तिः
मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत् ॥ १२२ ॥ अथ कूर्मः कूर्मावतारिणं देवं कमठा कृतिमालिखेत् ।
१. 'पिङ्गमु' घ. पाठः २. 'स्तब्धपी' क. ख. पाठः.
X
--
-AL
--