________________
१६८ शिल्परने
{उत्तरभागः खेटकं च कपालं च नागपाशमदक्षिणे । तामसे तु धनुर्बाणं दक्षिणेऽदक्षिणे धृतम् ॥ १० ॥ शेषं राजसवत् ख्यातं रक्तकेशोर्ध्वमण्डलम् । उग्रदृष्टिसमायुक्तं नानानागविभूषितम् ॥ १०८ ॥ त्रिनेत्रं नग्नरूपं च क्षेत्रपालमिमं विदुः । अथवा, व्यालम्बाग्रजटाधरं त्रिनयनं नीलाञ्जनाद्रिप्रभं
दोईन्द्वात्तकपालशूलमरुणस्रग्वस्त्रगन्धोल्बणम् । घण्टामेखलघर्घर(स्यनिबि ? ध्वनिमि)लडुङ्कारभीमं विभुं
बन्दे संहितसर्पकुण्डलधरं तं क्षेत्रपालं सदा ॥१०९॥ अपिच,
दंष्ट्रोग्रदन्तुरमहीश्वरभोगभूष
माशाम्बरं करधृतोग्रगदाकपालम् । वृत्तोग्रचक्षुषमुदापिशङ्गकेशं
तं क्षेत्रपालमनिशं + महं नमामि ॥ ११॥ अथ वामनः ----
कृष्णाजिन्युपवीती स्याच्छत्री धृतकमण्डलुः॥ १११ ।।
कुण्डली शिखया युक्तः कुब्जाकारो मनोहरः। अथ नृवराहः
नृवराहं प्रवक्ष्यामि सूकरास्येन शोभितम् ।। ११२ ॥ गदापद्मधरं धात्री दंष्ट्राग्रेण समुद्धताम् । बिभ्राणं कोपरे वामे विस्मयोत्फुल्ललोचनाम् ॥ ११३ ॥ १. 'नमुर्तिः ---' घ. पाठः,