________________
गरुडः]
पञ्चविंशोऽध्यायः । राकाचन्द्रांशुजालप्रसमरनखदंष्ट्रांशुसन्दोहनश्यद्ध्वान्ताशाचक्रवालं कपिवरमनिशं वायुपुत्रं नमामि
[॥ ८६ ॥ अथवा, वामे जानुनि वामबाहुमपरं ज्ञानाढ्यमुद्रायुतं ___ हृदेशे कलयन् वृतो मुनिगणैर्नासाग्रदत्तेक्षणः । आसीनः कदलीवने मणिमये बालार्ककोटिप्रभो ध्यायन् ब्रह्म परं करोतु मनसः शुहिं हनूमान् मम
[॥ ८७ ॥ अथवा, क्रोधोद्विग्नविधूर्णितारुणतरप्रोहान्तनेत्रद्वय
प्रोद्यद्वहिशिखारफुलिङ्गनिकरप्लुष्टाहिचोरादिकम् । घोरं मेरुसमानदेहमरुणश्रोत्रास्यपादस्थलं
वन्दे मारुतिमाञ्जनेयमनिशं दंष्ट्राकरालाननम् ॥ ८८ ॥
अथ गरुडःआजानूत्तप्तहेमप्रभमथ + हिमप्रख्यमानाभि साक्षा
दा कण्ठोत् कुङ्कमाभं भ्रमरकुलसमश्यामलं मूर्ध्नि शान्तम्। व्याप्तब्रह्माण्डगर्भ द्विभुजमभयदं पिङ्गनेत्रोग्रतारं
ताक्ष्यं नीलाग्रनासाद्युतिविविधमहापक्षलक्ष्यं नमामि
अपिच, पायाद् देवो गरुत्मानमृतघटगदाशङ्खचक्रासिना(गा)न् बिभ्राणः कृष्णपादो निजकरकमलैरष्टभिः स्वर्णवर्णः ।
१. 'यद्वा' म. पाठः. २. '' क. ख. ग. पाठ...