________________
१६४
शिल्परले
[उत्तरमागः अर्थ कामः
अरुणमरुणवासोमाल्यदामाङ्गरागं
स्वकरकलितपाशं साङ्कुशास्त्रक्षुचापम् । मणिमयमकुटाचैर्दीप्तमाकल्पजालै
ररुणनलिनसंस्थं चिन्तयेदङ्गयोनिम् ॥ ८२ ॥ अपिच, रक्ताम्भोरुहसंस्थितं करतले कोदण्डमिक्षूद्भवं
पुष्पास्त्रं वरदाभयौ च दधतं रक्ताङ्गरागादिकम् । वामाङ्कस्थितयोपगूढमनिशं रत्या च दत्तेक्षणं
तहक्राम्बुरुहे मनोहरतनुं वन्दे सदा मन्मथम्॥ ८३ ॥ अथ वीरभद्रःगोक्षाराभं दधानं परशुडमरुको खड्गखेटौ कपालं
शूलं चाभीतिदाने त्रिनयनलसितं व्याघ्रचर्माम्बराढ्यम् । वेतालारूढमुग्रं कपिशतरजटाबद्धशीतांशुखण्डं ध्यायेद् भोगीन्द्रभूषं निजगणसहितं सन्ततं वीरभद्रम्
[॥ ८४ ॥ अथवा, सितपङ्कजमध्यसंस्थमेनं सुसितं व्याघ्रनखादिबालचिद्वैः। उपलक्षितबालभावमाशापरिधानं कमनीयगात्रयष्टिम्॥ ८५ ॥
अथ हनुमान् ---- पिङ्गाक्षं पिङ्गकेशं शशरुधिरनिकाशास्यदोःपादपद्म प्रोद्यन्मार्ताण्डकोटिप्रतिमतनुगलद्रश्मिभिर्दुनिरीक्ष्यम् । १. 'मदेवः । अ', २. 'मितत' घ. पाठः.
-