________________
सौरमष्टाक्षरम् । पश्चविंशोऽध्यायः ।
१६३ पाशाभयाक्षवलयेष्टदहस्तमेवं
स्मृत्वा न्यसेत् सकलवाञ्छितवस्तुसिद्धयै ।। ७७ ॥ अपिच, अरुणकनकवर्ण पद्मसंस्थं च गौरी
हरनियमितचिह्नं सौम्यतानूनपातम् । भवतु भवदभीष्टप्राप्तये पाशटङ्का
भयवरदविचित्रं रूपमर्धाम्बिकेशम् ॥ ७८ ॥ अथ शङ्करनारायणःध्येयो जटामकुटचन्द्रकलार्धमूर्धा
त्रीक्षस्तरवजिनपीतदुकूलवासाः । ईशान्युतस्तिशिखचक्रकपालशङ्खान्
बिभ्रत् सितासितवपुयुचितात्मभूषः ॥ ७९ ॥ अथ सूर्यः
रक्तासिताम्भोजधरं कराभ्या
मादीप्तभामण्डलमध्यसंस्थम् । सूर्य पिशङ्गांशुकगन्धमाल्य
मादीप्तदिव्याभरणं नमामि ॥ ८ ॥ अथ सौरमष्टाक्षरम् -
अरुणसरोरुहसंस्थ
स्त्रिहगरुणोऽरुणसरोजयुगलधरः । कलिताभयवरदकरो
द्युतिबिम्बोऽमितभूषणस्त्विनोऽवतु वः॥८१ ॥
१. 'त्र्य' घ. पाठः.