________________
शिस्फरने हेमाभं पीतवस्त्रं रविशशिदहनत्रीक्षणं चित्स्वरूपं
सर्वशं सर्वगै ते हरिहरविधिजं विश्वरूपं नमामि ॥७३॥
भय शक्तिगणपतिः-- द्वाभ्यां विभ्राजमानं द्रुतकनकमहालाभ्यां कराभ्यां
बीजापूरादिशुम्भद्दशभुजललितं पञ्चबीजस्वरूपम् । सन्ध्यासिन्दूरवर्ण स्तनभरनमितं तुन्दिलं सन्नितम्बं कण्ठादूर्ध्व करीन्द्रं युवतिमयमधो (तं?) नौमि देवं
[गणेशम् ॥ ७४ ।। अथ लक्ष्मीनारायणः - चक्र विद्यादेरघटगदादर्पणान् पद्मयुग्म
दोभिर्विम्रत् सुरुचिरतरं मेघविधुनिभाभम् । गाढोत्कण्ठाविवशमनिशं पुण्डरीकाक्षलक्ष्म्यो
रेकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ ७५॥ अथार्धनारीश्वरःपाशाङ्कुशौ जपपटीमभयं च बिभ्रद्
बालेन्दुचूडमरुणाम्बुजगं त्रिनेत्रम् । बन्धूंककाअननिभोभयपार्श्वमव्या
दर्धाम्बिकेशमनिशं रुचिरं वपुर्वः ॥ ७६ ।। अपिच, सिन्दुरकाबनसमोभयपार्श्वमर्ध
नारीश्वरं गिरिसुताहरभूषचिह्नम् ।
१, गन्धं ह', २. 'ध' क. ग. पाठः. ३. 'न' ख. म. पाठः.