________________
१६१
मिश्रमूर्तिः ]
पञ्चविंशोऽध्यायः । अथवा, पार्श्वस्थापत्यदारं वटविटपितलन्यस्तसिंहासनस्थं
श्यामं कालाम्बरामं श्रितकरयुगलं++चिन्तामणिं च । + + निलिंशबाणासनविशिखयुतं रक्तमाल्यानुलेपं वन्दे शास्तारमीड्यं धनकुटिलबृहत्कुन्तलोदग्रमौलिम्
[॥६९॥ अपिचअंसासक्तसुवर्णकर्णिकमुरोविस्तीर्णहारोज्ज्वलं
शृङ्गारोचितवेषविभ्रमसुखं श्यामांशुकं श्यामलम् । रक्तालेपनमाल्यदामदयितं नीलोल्लसत्कुन्तलं
वन्दे बाणशरासनोद्यतकरं वीरेशमायं सदा ॥ ७० ॥ अथ प्रभा-- रक्ताकल्पोज्ज्वला रक्तां सुरूपां कान्तयौवनाम् ।
धृतवीणां प्रभां वन्दे देवी रक्तान्तलोचनाम् ॥ ७१ ॥ अथ सत्यक:
तेमालश्यामलं भद्रं पिङ्गलाकल्पसुन्दरम् । अधिज्यकार्मुकं वन्दे सत्यमव्यक्तयौवनम् ॥ ७२ ॥
___अथ मिश्रमूर्तयः। तत्र पूर्वमनुष्टुपत्रयम् - हेमाम्भोजे निषण्णं स्रवदमृतघटौ चक्रशलो कराब्जे
वक्षस्रक्कुण्डिकाख्ये शिरसि शशिकलां धारयन्तं सुभूषम् ।
१. 'कराल' ख. पाठः.
२. 'तिः । त' क. ख. ग, पाठः,