SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १६१ मिश्रमूर्तिः ] पञ्चविंशोऽध्यायः । अथवा, पार्श्वस्थापत्यदारं वटविटपितलन्यस्तसिंहासनस्थं श्यामं कालाम्बरामं श्रितकरयुगलं++चिन्तामणिं च । + + निलिंशबाणासनविशिखयुतं रक्तमाल्यानुलेपं वन्दे शास्तारमीड्यं धनकुटिलबृहत्कुन्तलोदग्रमौलिम् [॥६९॥ अपिचअंसासक्तसुवर्णकर्णिकमुरोविस्तीर्णहारोज्ज्वलं शृङ्गारोचितवेषविभ्रमसुखं श्यामांशुकं श्यामलम् । रक्तालेपनमाल्यदामदयितं नीलोल्लसत्कुन्तलं वन्दे बाणशरासनोद्यतकरं वीरेशमायं सदा ॥ ७० ॥ अथ प्रभा-- रक्ताकल्पोज्ज्वला रक्तां सुरूपां कान्तयौवनाम् । धृतवीणां प्रभां वन्दे देवी रक्तान्तलोचनाम् ॥ ७१ ॥ अथ सत्यक: तेमालश्यामलं भद्रं पिङ्गलाकल्पसुन्दरम् । अधिज्यकार्मुकं वन्दे सत्यमव्यक्तयौवनम् ॥ ७२ ॥ ___अथ मिश्रमूर्तयः। तत्र पूर्वमनुष्टुपत्रयम् - हेमाम्भोजे निषण्णं स्रवदमृतघटौ चक्रशलो कराब्जे वक्षस्रक्कुण्डिकाख्ये शिरसि शशिकलां धारयन्तं सुभूषम् । १. 'कराल' ख. पाठः. २. 'तिः । त' क. ख. ग, पाठः,
SR No.008432
Book TitleShilparatna Part 2
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1929
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy