________________
२६॥ शिल्परले
[उत्तरमा पापघ्नैः पक्षवातैरखिलविषहरैराश्रितार्तिघ्नवृत्तः श्रीमान् यः पन्नगारिः सकलविषभयाद् रत्नजालोज्ज्वलाङ्गः
[॥ ९ ॥ मथाश्विनौ-- एकसिंहासनासीनावश्विनावश्वरूपिणौ । डाडिमीपुष्पसङ्काशावुभौ तौ सोपवीतकौ ॥ ९१ ॥ फुल्लरक्तोत्पलाक्षौ च पीतस्रग्वस्त्रधारिणौ । करद्वयसमायुक्तौ श्रीभूषणविभूषितौ ॥ ९२ ॥ अभयं दक्षिणे हस्ते वरदं वामहस्तके। . लम्बितौ दक्षिणं पादं वाममुत्कुटिकासनौ ॥ ९३ ॥ अथ पितरः---- पितरः पीतवर्णाभा द्विभुजाः श्वेतवाससः । यज्ञसूत्रसमायुक्ताः सौम्यदृग्वदनान्विताः ॥ ९४ ।। फलके भद्रपीठे वा अयस्तु सहितासनाः । अथाप्सरसः - दुकूलवसनाः सर्वाः पीनोरुजघनस्तनाः ॥१५॥ मध्ये क्षामा(र्ष १श्च) सौम्याश्च किश्चित्प्रहसिताननाः। नामालङ्कारसंयुक्ता भद्रपीठोपरिस्थिताः ॥ ९ ॥ समभङ्गसमायुक्ताः सप्तसङ्ख्याप्सराः स्मृताः ।
१. 'निदेवौ । ए' क. ख. ग. पाठः. २. 'हसहासी' क. ग. पाठः, ३. 'भयोः सो' क. ख. ग. पाठ: ४. 'मवीत' क. ग., 'मनीत' ख. . पाठः. ५. 'नामकं या' क. ल. ग. पाठः. १. 'क्षौमाविसौ घ. पाठः.