________________
सुब्रह्मण्यः ] पञ्चविंशोऽध्यायः।
१५९ अथवा, विनेशं सपरश्वधाक्षवटिकादन्तोल्लसल्लड्डुकै
दोभिः पाशसृणीस्वदन्तवरदाढ्यैर्वा चतुर्मियुतम् । शुण्डाग्राहितबीजपूरमुरुकुक्षिं त्रीक्षणं संस्मरेत्
सिन्दूराभमिभास्यमिन्दुशकलाद्याकल्पमञ्जासनम् ॥५७॥ अथ हेरम्बः -- सिंहोपरिस्थितं देवं पञ्चवक्रं गजाननम् । दशबाहुं त्रिनेत्रं च जाम्बूनदसमप्रभम् ॥ ५८ ॥ प्रसादाभयदातारं पात्रं पूरितमोदकम् । स्वदन्तं सव्यहस्तेन बिभ्रतं चापि सुव्रते! ॥ ५९ ॥ करकं चाक्षसूत्रं च परशुं मुद्गरं तथा । पाशाङ्कुशकरां शक्ति देवं लम्बोदरं शुभम् ॥ ६० ॥
पीवरं चैकदन्तं चैं तुम्बुरूणां गणान्वितम् । अथ बालगणपतिः. बालः प्रसूतमात्रोऽयमम्बिकाङ्के निवेशितः ॥ ६१ ॥ अतिरक्तो गजमुखो द्विरदो रत्नभूषितः । चषकं पुष्करे बिभ्रत् सृणिपाशौ करद्वये ॥६२॥ द्वाभ्यां कल्पलतां दोा डोलयन् रत्नवर्षिणीम् । एवं ध्यात्वा जपेन्मन्त्रं बालाख्यं गणनायकम् ॥ ६३ ॥ अथ सुब्रह्मण्यःसिन्दूरारुणविग्रहं सुरगणानन्दप्रदं सुन्दर देवं दिव्यविनोदधाममरुणाकल्पप्रकारोज्ज्वलम् । १. 'वैः' क. ख. ग. पाठः. २. 'स्कन्दः -सि' घ. पाठः.