________________
१५८ शिल्परने
[उत्तरभागः सिद्धिसमृद्धी चान्ये कान्तिर्मदनावती मदद्रवया । द्राविणिवसुधाराख्ये मधुमत्यपि विघ्ननिधियुगप्रमदाः
अथ बीजगणपतिःरक्तो रक्ताङ्गरागांशुककुसुमयुतस्तुन्दिलश्चन्द्रमौलि
नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरात्तनासः । हस्ताग्राक्लप्तपाशाङ्कुशरदवरदो नागवोऽहिभूषो देवः पद्मासनो वो भवतु नतसुरो भूतये विघ्नराजः
[॥ ५२ ॥ अथवा,
धृतपाशाङ्कुशकल्प(कोलतिकास्वरदश्व बीजपूरयुतः। शशिशकलकलितमौलिस्त्रिलोचनोऽरुणतेनुश्च गज
वदनः ॥५३॥ भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरो ललितः ।
(ध्येयोऽनायतदोःपत्सरसिरहः)संपदे सदा मनुजैः॥५४॥ अपिच,
*रक्ताक्षमालां परशुं च दन्तं __भक्ष्यं च दोभिः परितो दधानम् । हेमावदातं त्रिशं गजास्यं
लम्बोदरं तं शिरसा नमामि ॥ ५५ ॥ आपिच, *नमामि पाशाङ्कुशदन्तभक्ष्यसंलक्षितं त्र्यक्षमुदारकुक्षिम्। नागाननं नागकृतोत्तरीयमुत्तप्तहेमप्रभमेकदन्तम् ॥ ५६ ।।
१. 'व', २. 'ह' घ. पाठः. * इमौ श्लोको ध-मातृकायां व्युत्क्रमेण दृश्येते ।